________________
पञ्चमोध्यायः ।
१५९
annanen
कस्मात्, तल्पात् त्यक्तशयनीय इत्यर्थः। किं कृत्वा, आस्थाय प्रतिज्ञाय । कथमित्येवमनादावित्यादिना पूर्वोक्तप्रकारेण ॥ ३ ॥ ततश्च
समाध्युपरमे शान्तिमनुध्याय यथाबलम् ।
प्रत्याख्यानं गृहीत्वेष्टं प्रार्य गन्तुं नमेत् प्रभुम् ॥ ४ ॥ टीका--नमेत् पञ्चाङ्गप्रणामेन नमस्येत कृतक्रियः श्रावकः । कं, प्रभु अर्हद्देवं । किं कर्तुं, गन्तुं इष्टदेशान्तरं विहर्तु । किं कृत्वा, प्रार्थ्य याचित्वा । किं तत्, इष्टं वांछितं पुनर्दशनसमाधिमरणादिकं । किं कृत्वा, गृहीत्वा प्रतिपद्य । किं तत्, प्रत्याख्यानं भोगोपभोगादिनियमविशेष । कथं, यथाबलं शक्त्यनातिक्रमेण । किं कृत्वा, अनुध्याय अनुचिन्त्य । कां, शान्ति । येऽभ्यर्चिता मुकुटकुण्डलहाररत्नैरित्यादिप्रबंधेन श्रूयमाणां । क्व सति, समाध्युपरमे समाधेरवश्यकरणीयस्य धर्म्यध्यानस्य निवृत्ती ॥ ४ ॥ ततश्च
साम्यामृतसुधौतान्त-रात्मराजज्जिनाकृतिः ।
दैवादैश्वर्यदौर्गत्ये ध्यायन् गच्छेजिनालयम् ॥ ५ ॥ टीका-गच्छेत् व्रजेत् तथानुष्ठितावश्यकः श्रावकः । कं, जिनालयं अर्हचैत्यगृहं । किंविशिष्टः सन् , साम्येत्यादि साम्यं जीवितमरणादौ समतापरिणामस्तदेवामृत प्रसक्तिप्रकर्षहेतुत्वात्तेन सुष्टु संस्कारदा_लक्षणप्रकर्षापादनेन अतिशयेन धौतः क्षालितो विशुद्धिमापादितः अन्तरात्मा स्वपरभेदज्ञानोन्मुखमन्तःकरणं तत्र राजन्ती दीप्यमाना जिनाकृतिः परमात्ममूर्तिर्यस्य स तथोक्तः । किं कुर्वन् गच्छेत्, ध्यायन् चिन्तयन् । के, ऐश्वर्यदौगत्ये ऐश्वर्यमर्थाद्याधिपत्यं दौर्गत्यं दारिद्र्यं ऐश्वर्य च दौर्गत्यं च ऐश्वयदौर्गत्ये सम्भव. न्तीति ध्यायन् । कस्मात्, दैवात् पुराकृतशुभाशुभकर्मविपाकात् । इदमत्रैदम्पर्य यदीश्वरो महर्द्धिको राजा सामन्तादिर्वा भवति तदा पुण्यविपाकप्रभवा सम्पदियं न पौरुषेयी तदस्यां कथमात्मज्ञो मदमुपयादिति भावयन् गच्छेत् । अथ दरिद्रस्तदा पापविपाकजानतामद दारिद्यदुःखं न केनापि च्छत्तु शक्यं तदत्र को बद्रिमान विषादमासीदतीति भावयन गच्छेदिति ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org