________________
१५८
सागारधर्मामृते
तेनेत्याह, उत्थाय विनिद्रीभूय । क्व, मुहूर्ते नाडीद्वये। किंविशिष्टे, ब्राझे ब्राह्मी सरस्वती देवता अस्येति ब्राह्मस्तस्मिन्निशावसानघटिकद्वय इत्यर्थः। तदुक्तं-ब्राह्म मुहूर्त उत्थाय सर्वकार्याणि चिन्तयेत् । यतः करोति सान्निध्यं तस्मिन् हृदि सरस्वती ॥ १ ॥
ततः
अनादौ बम्भ्रमन् घोरे संसारे धर्ममार्हतम् ।
श्रावकीयमिमं कृच्छ्रात् किलापं तदिहोत्सहे ॥ २ ॥ टीका-किल एवं ह्यागमे श्रूयते आपं प्राप्तोऽहं । कं, धर्म । किंविशिष्टं, आहतं अर्हता वीतरागसर्वज्ञेन प्रोक्तं । किंप्रयोक्तकं, श्रावकीयं श्रावकाणामयं श्रावकीयस्तमुपासकोपासनीयमित्यर्थः। कीदृशमिम इदानीमप्यंतःस्फुरंतं । कस्मादापं, कृच्छात् जगत्यनन्तैकेत्यादिना प्रागुक्तात् । किं कुर्वन्, बम्भ्रमन् कुटिलं पर्यटन् । क्व, संसारे द्रव्यक्षेत्रकालभवभावपरिवर्तनरूपे आजीवञ्जीवीभावे । किंविशिष्टे, घोरे भयङ्करे । पुनः किंविशिष्टे, अनादौ नास्ति पूर्वो यस्यासावनादिः तस्मिन् बीजाफुरन्यायेन सन्तत्या वर्तमान इत्यर्थः । तत्तस्मात् उत्सहे प्रमादपरिहारेण वर्तेऽहं । क्व, इहास्मिन् अत्यन्तदुर्लभे धर्मे ॥२॥
इत्यास्थायोत्थितस्तल्पाच्छुचिरेकायनोऽर्हतः। निर्मायाष्टतयीमिष्टिं कृतिकर्म समाचरेत् ॥ ३ ॥ टीका-समाचरेत् सम्यगनुतिष्ठेत् व्रतिकः । किं तत्, कृतिकर्म योग्यकालासनेत्यादिना प्राक्प्रबन्धेन सूचितप्रायं वन्दनाविधानं । किं कृत्वा, निर्माय कृत्वा । कां, इष्टिं पूजां किंविशिष्टामष्टतयीं अष्टौ जलगन्धाक्षतादयोऽवयवा यस्याः सा अष्टतयी तामष्टविधामित्यर्थः । कस्य, अर्हतः भगवतोऽहंद्देवस्य । उपलक्षणात् श्रुतस्य गुरुचरणानां च । किंविशिष्टः सन्, एकायनः एकाग्रमनाः । कथम्भूतो भूत्वा, शुचिः शरीरचिन्तां कृत्वा विधिवद्विहितशौचस्नानदन्तधावनादिक्रियः । एतच्चानुवादपरं लोकप्रसिद्धत्वान्मलोत्सर्गाद्यर्थस्य नोपदेशः । परमप्राप्ते शास्त्रस्यार्थवत्त्वादेवमुत्तरत्राप्यप्राप्त आमुष्मिकादिवि. पये उपदेशः फलवानिति चिन्त्यं । किंविशिष्टः सन्, उत्थितः उत्थाभूतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org