________________
षष्ठोध्यायः ।
१५७.
वृत्यपरायणो वैयावृत्त्यं निरवद्यवृत्त्या आपत्प्रतीकारः तत्र परायणस्तत्परः। केषां, गुणवतां गुणभाजां संयमविकल्पातिशयभाजां रत्नत्रयाराधकानां वा । पुनः किं कुर्वन्, उद्धरन् दुःखाद्विमोचयन् । कान्, दीनान् अवृत्तिव्याधिशोकार्तान् । कथमतीव पाक्षिकाद्यपेक्षयाऽतिशयेन । एतेन सम्यग्दर्शनशुद्धत्वं व्रतभूषणभूषितत्वं निर्मलशीलनिधित्वं संयमनिष्ठत्वं जिनागमज्ञत्वं गुरुशुश्रूषकत्वं दयादिसदाचारपरत्वं चेति सप्तगुणयोगान्महाश्रावकत्वं कस्यचित्सुकृतिनः कालादिलब्धिविशेषवशाद्भवतीति तात्पर्यार्थोऽत्र प्रतिपत्तव्य इति भद्रम् ॥ ५५ ।।
इत्याशाधरविरचितायां स्वोपज्ञधर्मामृत सागारधर्मदीपिकायां भव्यकुमुदचन्द्रिकासज्ञायामादितश्चतुर्दशः प्रक्रमाच
पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥
अथ षष्ठोऽध्यायः। इदानीमाहोरात्रिकमाचार श्रावकस्योपदेष्टुकामः पूर्व पौर्वह्निकीमितिकत. व्यतां चतुर्दशभिः श्लोकैाकरोति--
ब्राह्मे मुहूर्त उत्थाय वृत्तपंचनमस्कृतिः ।
कोऽहं को मम धर्मः किं व्रतं चति परामृशेत् ॥ १॥ टीका-परामृशेत् चिन्तयेत् श्रावकः । किं, इति एतत् । तद्यथा-कोऽहं क्षत्रियो ब्राह्मणादिर्वा इक्ष्वाकुवंशोद्भवोऽन्यवंशोद्भवो वाऽहमित्यादि चिन्त. येत् । तथा को मम धर्मो जैनोऽन्यो वा श्रावकीयो यत्यादिसंबंधी वा मे देवादिसाक्षिक प्रतिपन्नो वृष इति चिन्तयेत् । तथा किं व्रतं मूलगुणरूपमणुव्रतादिरूपं वा मम । चशब्दात् के गुरवो ममेति । कुत्र ग्रामे नगरादौ वा. वसामीति । कोऽयं कालः प्रभातादिरिति चेत्यादि समुच्चीयते । स्ववर्णादिस्मृतौ हि तद्विरुद्ध परिहारं सुखेन करोति। कथम्भूतो भूत्वा, वृत्तपञ्चनमस्कृतिः अन्तर्जल्पेन बहिर्जल्पेनापि वा वृत्ता पठिता पञ्चनमस्कृतिः णमो अरहंताणमित्यादिगाथारूपः पञ्चनमस्कारो येन स तथोक्तः । किं कृत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org