SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १६० सागारधर्मामृते अनुवादमुखेन चैत्यालयव्रजनविधिमाह यथाविभवमादाय जिनाद्यर्चनसाधनम् । वजन्कौत्कुटिको देशसंयतः संयतायते ॥ ६ ॥ टीका--संयतायते संयतं यतिमिवात्मानमाचरति । कोऽसौ, देशसंयतः श्रावकः । किं कुर्वन्, व्रजन्गच्छन् । किंविशिष्टः सन् , कौत्कुटिकः पुरो युगमात्रप्रेक्षीत्यर्थः । किं कृत्वा, आदाय गृहीत्वा । किं तत्, जिनादीनामर्हच्छताचार्याणामचनसाधनं पूजाङ्गं जलगन्धाक्षतादिकं । कथं यथाविभवं स्वसम्पदनुसारण ॥ ६॥ दृष्ट्वा जगद्धोधकरं भास्करं ज्योतिराहतम् । स्मरतस्तद्गृहीशरोध्वजालोकोत्सवोऽघहत् ।। ७ ॥ टीका-भवति । कोऽसौ, तद्गृहशिरोध्वजालोकोत्सवः जिनचैत्यालयशिखरकेतनदर्शनानंदः । किंविशिष्टोऽघहृत् पापहरः । कस्य, तथागच्छतः श्रावकस्य 1 किं कुर्वतः, स्मरतः स्मृतिविषयीकुर्वतः । किं तत्, ज्योतिः ज्ञानमयं वाङ्मयं वा तेजः । किंविशिष्टमार्हतं जैनं । किं कृत्वा, दृष्टा आलोक्य । कं भास्करमादित्यं । किंविशिष्टं, जगद्बोधकरं जगतां दिवाचरप्राणिनां बोधं निद्रापनोदं करोतीत्येवंशीलं उद्यन्तमित्यर्थः । पक्षे बहिरात्मप्राणिनां मोहनिद्राप्रहरणशीलम् ॥ ७ ॥ वाद्यादिशब्दमाल्यादिगन्धद्वारादिरूपकैः । चित्रैरारोहदुत्साहस्तं विशनिसहीगिरा ॥ ८॥ टीका-विशेत् प्रविशेदसौ । कं, तं जिनालयं । कया, निसहीगिरा निस. हीति शब्दमुच्चारयन्नित्यर्थः । किंविशिष्टः सन्, आरोहदुत्साहः प्रवर्द्धमानधर्मा. चरणोद्योगः । कैः, वाद्यादीत्यादि वाद्यानां प्राभातिकतूर्याणामादिशब्देन स्वा. ध्यायस्तुतिमङ्गलगीतादीनां च शब्दैर्निनादैः । तथा माल्यादीनां चम्पकपुष्पादिमालानां आदिशब्देन धूपचूर्णादीनां च गंधैरामोदैस्तथा द्वारस्य प्रवेशमुखस्य आदिशब्देन तोरणस्तम्भशिखरादीनां च रूपकैश्चेतनाचेतनप्रतिच्छन्दैः । किंविशिष्टैश्चित्रैर्नानाप्रकारैविस्मयकरैश्च ॥ ८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy