SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५४ सागारधर्मामृते hrVM कृत्वा माध्याहिकं भोक्तुमुद्युक्तोतिथये ददे । स्वार्थ कृतं भक्तमिति ध्यायन्नतिथिमीक्षताम् ॥ ११ ॥ टीका-ईक्षतामतिथिसंविभागव्रती श्रावकः अन्वेषयतु । कं, अतिथिं । किं. कुर्वन्, ध्यायन् एकाग्रतया चिन्तयन् । किमिति, एतत् । किमेदतित्याहददे प्रयच्छाम्यहं । किं तत्, भक्तमाहारं । कस्मै, अतिथये प्रागुक्तलक्षणाय । किविशिष्टं, कृतं साधितं । किमर्थं, स्वार्थ आत्मार्थं आत्मनो निमन्त्रणादौ सत्यात्मीयार्थमपि । स्वस्मै इदं स्वार्थमित्यस्य कृता पदेन विग्रहः । कीदृशो भूत्वा, एतध्यायन्नतिथिमीक्षतामित्यत्राह-उद्युक्तः उद्यतः । किं कर्तु, भोक्तुं. भोजनं करिष्याम्यहमित्यध्यवसानाभिमुखः । किं कृत्वा, कृत्वा विधाय । किं तत्, माध्याह्निकं मध्याह्ने भवं कर्म स्नानदेवार्चनादिकं ॥ ५१ ॥ द्वीपेष्वर्धतृतीयेषु पात्रेभ्यो वितरन्ति ये । ते धन्या इति च ध्यायेदतिथ्यन्वेषणोद्यतः ॥ ५२ ।। टीका--ध्यायेच्च चिन्तयेत् । कोऽसौ, अतिथ्यन्वेषणोद्यतः श्रावकः । किं, इति एतत् । वर्तन्ते । के, ते गृहस्थाः । किंविशिष्टाः, धन्याः पुण्यवन्तः । ये किं, ये वितरन्ति यथाविधि प्रयच्छन्ति । केभ्यः, पात्रेभ्यः । केषु, द्वीपेषु किंविशिष्टेषु, अर्धतृतीयेषु जम्बूद्वीपे घातकीखण्डे पुष्करवरद्वीपस्य चार्धे अर्धतृतीयो येषां ते अर्धतृतीया इति विग्रहः ॥ ५२ ॥ भूम्यादीनां देयत्वं ग्रहणादौ च दानं नैष्ठिकस्य हिंसासम्यक्त्वोपघातहेतु त्वप्रकाशनेन निषेद्धुमाह हिंसार्थत्वान्न भूगेहलोहगोश्वादि नैष्ठिकः। दद्यान्न ग्रहसङ्क्रान्तिश्राद्धादौ च सुदृग्गुहि ॥ ५३ ॥ टीका-न दद्यान्न प्रयच्छेत् । कोऽसौ, नैष्टिको दर्शनिकादिगृही ! किं तत्, भूगेहलोहगोश्वादि भूश्च भूमि हं च गृहं लोहं च शस्त्रोपादानं गौश्वानड्वाही अश्वश्च घोटको भूगेहलोहगोश्वास्ते आदयो यस्य कन्याहेमतिलदध्यन्नादेर्बादैः पुण्यार्थतया देयत्वेन समर्थितस्य द्रव्यस्य तत् भूगेहादिद्रव्यं नैष्ठिको न Jain Education International For Private & Personal Use Only ____www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy