________________
पञ्चमोध्यायः।
१५३ दानस्य कादीनां फलानि दृष्टान्तमुखेन स्पष्टयतियत्कर्ता किल वज्रजङ्कनृपतिर्यत्कारयित्री सती श्रीमत्यप्यनुमोदका मतिवरव्याघ्रादयो यत्फलम् । आसेदुर्मुनिदानतस्तदधुनाऽप्याप्तोपदेशाब्दकव्यक्त कस्य करोति चेतास चमत्कारं न भव्यात्मनः ॥५०॥ टीका--किल एवं ह्याचे श्रूयते । यदासेदुः प्राप्ताः । के ते, मुनिदानस्य कादिभावमापन्ना वज्रजङ्घमहाराजप्रभृतयः । किं तत्फलं । कस्मात् मुनिदानतः । तत्कस्य चेतसि चमत्कारं न करोतीति समुदायेनार्थकथनं । इयं तु प्रत्येकवाक्यपरिसमाप्तिरिदानी प्रदश्यते। यत्किल वज्रजवनृपतिरुत्प, लखेटनगराधिपतिर्वज्रजवो नाम नृपतिराससाद प्राप्तः। किं तत्फलं। कस्मान्मुनिदानतः । किंविशिष्टः सन् , कर्ता दानस्य स्वातंत्र्येण विधाता । यच्च आससाद । काऽसौ, सती पतिव्रता । किंनाम्नी, श्रीमती पुण्डरीकिणीनाथस्य वज्रदन्तचक्रिणः पुत्री वज्रजङ्घनपतेः पत्नी । किं तत्, फलं । कस्मात्, मुनिदानतः। किंविशिष्टा सती, कारयित्री स्वभर्तुर्दानं कुर्वतः प्रयोजयित्री। अपिः समुच्चये पूर्वत्रोत्तरत्र च चशब्दार्थे योज्यः । यच्च आसेदुः प्राप्ताः । के ते, मतिवरव्याघ्रादयो मुनिदानतः फलं । मतिवरो वज्रजङ्वनृपतेर्मन्त्री आदिशब्दादानन्दो नाम तस्यैव पुरोहितोऽकम्पनाभिधानः सेनापतिर्धनमि. त्रनामा च श्रेष्टी । पुनरादिशब्दात्सूकरो वानरो नकुलश्च गृह्यते । मतिवरश्च व्याघ्रश्च मतिवरव्याघ्रौ तावादी येषामानन्दाख्यपुरोहितादीनां तद्वनवासिसू. करादीनां च ते मतिवरव्याघ्रादय इति विग्रहः। किंविशिष्टाः सन्तोऽनुमोदका एष साधु करोतीति तद्दानस्यानुमन्तारः तत्कर्तृत्वकारयितृत्वानुमोदकत्वपरिणामद्वारायातसुकृतसंघातहेतुकं मुनिदानफलं कर्तकस्य भव्यात्मनः चेतसि चमत्कारं न करोति ? सर्वस्यापि करोतीत्यर्थः । कदा, अधुनाऽपि । किं पुनस्तत्काले । किंविशिष्टं सत्, आप्तोपदेशाद्धकव्यक्तं आप्तानां परापरगुरूणामुपदेशो रहस्यवाक्यमाप्तोपदेशः स एवादक आदर्शः स्वविषयार्थस्पष्टप्रती. तिनिमित्तत्वादाप्तोपदेशाद्वकस्तत्र तेन वा व्यक्तंप्रतीतियोग्यतां नीतम्॥५० ।।
अधुना अतिथ्यन्वेषणविधि श्लोकद्वयेनाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org