________________
१५२
सागारधमामृतेदानफलं तद्विशेषं च व्याचष्टे
रत्नत्रयोच्छ्रयो भोक्तुर्दातुः पुण्योच्चयः फलम् ।
मुक्त्यन्तचित्राभ्युदयप्रदत्वं तद्विशिष्टता ॥ ४८ ॥ टीका--भवति । किं तत्, फलं दानस्य साध्यं । कस्य, भोक्तुराहाराद्युपयोक्तुः । किं तत्, रत्नत्रयोछूयः सम्यग्दर्शनादीनामुद्गतिः तथा तत्फलं भवति । कस्य, दातुर्दायकस्य । किं तत्पुण्योच्चयः सुकृतराशिः । भवति । काऽसौ, तद्विशिष्टता तस्य दानस्य फलस्य वैशिष्टयं । किं तत्, मुक्त्यन्तेत्यादि चित्र नानाप्रकारा इन्द्रचक्रिबलदेवतीर्थकरादिपदलक्षणाः विश्वविस्मयकराश्च अभ्युदयाश्चित्राभ्युदयाः, मुक्तिरनन्तज्ञानादिचतुष्टयप्राप्तिलक्षणं निःश्रेयसं अन्ते अवसाने फलोपभोगच्छेदे येषां ते मुक्त्यन्तास्ते च ते चित्राभ्युदयाश्च मुक्त्यन्तचित्राभ्युदयास्तान् प्रकर्षणाप्रतिबन्धलक्षणेन ददाति सम्पादयतीति तत्प्रदं, तस्य भावस्तत्त्वम् ॥ उक्तं च--" पात्रदाने फलं मुख्यं मोक्षः सस्यं कृषेरिव ॥ पलालमिव भोगास्तु फलं स्यादानुषङ्गिकम्” ॥ ४८ ॥ गृहव्यापारप्रभवपातकापनोदनसामर्थ्य मुनिदानस्य दर्शयति
पञ्चमूनापरःपापं गृहस्थःसञ्चिनोति यत् ।
तदपि क्षालयत्येव मुनिदानविधानतः ॥ ४९ ॥ टीका-यत्पापं सञ्चिनोति सम्बध्नाति गृहस्थः । किंविशिष्टः सन् , पञ्चसूनापरः, पेषणी कुट्टनी चुल्ली उदकुम्भी प्रमार्जनी चेति पञ्च क्रियाः सूना इति प्रसिद्धाः । सूना इव सूनाः प्राणिवातस्थानसाधात् । पञ्च सूनाः पराः प्रधानानि यस्य सः पञ्चसूनापरः । आसामवश्यम्भावित्वाद्हस्थस्य प्राधान्येनोपादानं । तेन ततो अन्यान्यपि पापकर्माणि गुणभावेन गृहिणः संगृह्यन्ते । क्षालयत्येव अवश्यं स्फेटयति । गृहस्थः । किं तत्, तदपि पञ्चावश्यकार्यव्या. पारहेतुकं पापं । अपिविस्मये समुच्चये वा । न केवलं तदेव पापं क्षालयति व्यापारान्तरप्रभवमपीत्यर्थः । कस्मात्, मुनिदानविधानतः मुनये उत्तमपात्राय दानं स्वपरोपकाराय स्वद्रव्यातिसर्जनं मुनिदानं तस्य विधानं विधिवत्प्रयोगः नम्मातेन वा ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org