________________
पञ्चमोध्यायः ।
१५१
win mmmmmwww टीका-भवति । किं तत्, द्रव्यमर्थादेयं । किंविशिष्टमन्नादि आहारौषधावासपुस्तकपिच्छिकादि । किंविशिष्टं तत्, पिण्डशुध्द्युक्तं पिण्डशुद्धौ पिण्डशुद्धिप्ररूपणार्थे पूर्वमनगारधर्मस्कन्धे पञ्चमाध्याये प्रतिपादितं । अस्य तु यथोक्तदेय द्रव्यस्य पुनर्भवति । किं तत्, वैशिष्टयं विशेषः । किं तत्, रत्नतयचयाङ्गता सम्यग्दर्शनादिवृद्धिकारणत्वं । केन, रागाद्यकारकत्वेन रागद्वेपासंयममददुःखचयाद्यजनकत्वेन ॥ ४६ ॥ दातृलक्षणं तद्वैशिष्टयं चाह
नवकोटीविशुद्धस्य दाता दानस्य यः पतिः।
भक्तिश्रद्धासत्त्वतुष्टिज्ञानालौल्यक्षमागुणः ॥ ४७ ।। टीका-स दाता भण्यते पूर्वाचार्यैः । यः किं, यो भवति । किंविशिष्टः,पतिः स्वामीप्रयोक्ता । कस्य, दानस्य देयस्य दत्तिक्रियाया:वा। किंविशिष्टस्य, नवकोटीविशद्वस्य नवकोट्यः मनोवाकायैः प्रत्येकं कृतकारितानमतानि । अथवा देयशुद्धिस्तत्कृते च दातृपात्रशुद्धी,दातृशुद्धिस्तत्कृते च देयपात्रशुद्धी पात्रशुद्धिस्त स्कृते च देयदातृशुद्धी चेत्यार्पोक्ताः । नवकोटीभिर्विशुद्धमकृतपिण्डशुध्द्युक्तदोषसम्पर्क आर्षोक्तं तत्पक्षे नु नवकोट्या विशुद्धाः सुप्रसिद्धा यत्रेति विग्रहः । किंवि. शिष्टः सन् , भक्तीत्यादि भक्त्यादयः सप्तगुणाः विशेषणानि परासाधारणानि यस्य स तथोक्तः । तत्र भक्तिः पात्रगुणानुरागः। श्रद्धा पात्रदानफले प्रतीतिः। सत्त्वं सत्त्वाख्यो मनोगुणः स्वल्पवित्तस्यापि स्वाट्याश्चर्यकारिदानप्रवृत्त्यङ्गं । तुष्टिः दत्ते दीयमाने च प्रहर्षः । ज्ञानं द्रव्यादिवेदित्वं । अलौल्यं सांसारिकफलानपेक्षा । क्षमा दुर्निवारकालुप्यकारणोत्पत्तावपि कोपाभावः ।। तदुक्तंभाक्तक तौष्टिकं श्राद्धं सविज्ञानमलोलुपम् । सात्त्विकं क्षमकं सन्तो दातारं सप्तधा विदुः ॥ १॥ किं च । सत्त्वादिगुणदातृकं दानमपि सात्त्विकादिभेदात्रिविधमिप्यते । तदुक्तं--" आतिथेयं हितं यत्र यत्र पात्रपरीक्षणम् ।। गुणाः श्रद्धादयो यत्र तदानं सात्त्विकं विदुः ॥ १॥ यदात्मवर्णनप्रायं क्षणि काहार्यविभ्रमम् ॥ परप्रत्ययसम्भूतं दानं तद्राजसं मतम् ॥ २ ॥ पात्रा. पात्रसमावेक्षमसत्कारमसंस्तुतम् ॥ दासभृत्यकृतोद्योगं दानं तामसमूचिरे ॥३ ॥ उत्तमं सात्त्विकं दानं मध्यमं राजसं भवेत् ॥ दानानामेव सर्वेषां जघन्यं तामसं पुनः" ॥ ४७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org