________________
सागारधर्मामृते
यतिः स्यादुत्तमं पात्रं मध्यमं श्रावकोऽधमम् ।
सुदृष्टिस्तद्विशिष्टत्वं विशिष्टगुणंयोगतः ॥ ४४ ॥ टीका-स्यात् । किं तत्, पात्रं । किंविशिष्टं, उत्तममुत्कृष्टं । किं तत्, यतिः संयुज्यमानरत्नत्रयः । तथा मध्यमं पात्रं स्यात् । किं तत्, श्रावकः संयुज्यमानसम्यग्दर्शनज्ञानविकलसंयमः । तथा अधर्म पातं स्यात् । किं. तत्, सुदृष्टिरसंयतसम्यग्दृष्टिः । स्याच्च । किं तत्, तद्विशिष्टत्वं तेषामुत्तममध्यमाधमपात्राणां विशेषः परस्परतः परेभ्यश्च भेदः । कस्मात्, विशिष्टगुणयोगतः गुणविशेषसम्बन्धात ॥ ४४ ॥ दानविधेः प्रकारान् वैशिष्टयं चाह
प्रतिग्रहोच्चस्थानांघ्रिक्षालनाचीनतीविदुः।
योगानशुद्धीश्च विधीन् नवादरविशेषितान् ॥ ४५ ॥ टीका-विदुः जानन्ति पूर्वाचार्याः । कान्, विधीन् दानप्रयोगोपायान् । कति, नव । किमाख्यान, प्रतिग्रहादीन् । किंविशिष्टान्, आदरविशेषितान् आदरेण यथायोग्यभक्त्युपचारेण वैशिष्टयं नीतान् ॥ तत्र प्रतिग्रहः स्वगृहद्वारे यतिं दृष्ट्वा प्रसादं कुरुतेत्यभ्यर्थ्य नमोऽस्तु तिष्ठतेति त्रिणित्वा स्वीकरणं ॥ उच्चस्थानं स्वगृहान्तः स्वीकृतयतिं नीत्वा निरवद्यानपहतस्थाने उच्चासने निवेशनं ॥ अंघ्रिक्षालनं तथास्वीकृतनिवेशितसंयतस्य प्रासुकोदकेन पादधावनं तत्पादोदकवन्दनं च ॥ अर्चा तथाक्षालितांब्रेः संयतस्य गन्धाक्षतादिभिः पादपूजनं ॥ आनतिः तथापूजितसंयतस्य पञ्चाङ्गप्रणामकरणं । एते पञ्च ॥ तथा योगशुद्धयो मनोवाक्कायप्रसत्तयस्तिस्रः ॥ एका चान्नशुद्धिः । तत्र मनःशुद्धिरातरौद्रवर्जनं । वाक्शुद्धिः परुषकर्कशादिवचोवर्जनं ।। कायशुद्धिः सर्वत्र संवृताचारतया प्रवर्तनं ॥ अन्नशुद्धिः चतुर्दशमलरहितस्याहारस्य यतनया शोधितस्य हस्तपुटेऽर्पणम् ॥ ४५ ॥ देयद्रव्यविशेषनिर्णयार्थमाह
पिण्डशुद्धयुक्तमन्नादिद्रव्यं वैशिष्टयमस्य तु । रागाद्यकारकत्वेन रत्नत्रयचयाङ्गता ॥ ४६ ।।
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org