SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पञ्चमोध्यायः। १४९ कर्तुमाह-द्रव्यविशेषवितरणं वक्ष्यमाणलक्षणविशिष्टद्रव्यदानं । कस्मै, पानविशेषाय । कस्य कर्तुः, दातृविशेषस्य । केन, विधिविशेषेण । कस्मै, फलविशेषाय ॥ ४१ ॥ अतिथिशब्दव्युत्पादनमुखेनातिथिलक्षणमाह ज्ञानादिसिद्धयर्थतनुस्थित्यत्राय यः स्वयम् । यत्नेनातति गेहं वा न तिथिर्यस्य सोतिथिः ॥४२॥ टीका-भवृति । कोऽसावतिथिः । यः किं, योऽतति सर्वदा गच्छति । किं तत्, गेहं दातृगृहं । केन, यत्नेन संयमाविराधनेन । कथं, स्वयं आह्वानादिना विना । किमर्थ, ज्ञानादीत्यादि-ज्ञानादीनां सिद्धिः साधनं सम्पूर्णीकरणं ज्ञानादिसिद्धिरर्थः प्रयोजनं यस्याः सा ज्ञानादिसिध्द्यर्था सा चासो तनुश्च शरीरं ज्ञानादिसिध्द्यर्थतनुः तस्याः स्थितिर्यावदायुरवस्थानं सैवार्थः प्रयोजनं यस्य तत्तदर्थ तच्च तदन्नं च भोजनं तस्मै वा । अथवा सोऽतिथिर्भण्यते । उपलक्षणात्पर्वोत्सवौ च । नास्ति तिथिर्यस्येत्यतिथिरिति व्युत्पत्तेः । उक्तं च-" तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः” ॥ ४२ ॥ पात्रस्वरूपसंख्या निर्णयार्थमाह यत्तारयति जन्माब्धेः स्वाश्रितान्यानपात्रवत् । मुक्त्यर्थगुणसंयोगभेदात्पात्रं त्रिधा मतम् ॥ ४३ ॥ टीका--अस्ति भवति । किं तत्पात्रं । कतिधा, त्रिधा त्रिभेदं । कस्मात्, मुक्तरों निमित्तं कारणं, मुक्तिर्वाऽर्थः प्रयोजनं येषां ते मुक्त्यर्थास्ते च ते गुणाश्च सम्यग्दर्शनादयो मुक्त्यर्थगुणास्तेषां संयोगः संयुज्यमानत्वं तेन भेदो विशेषस्तस्मात् । यत्किं, यत्तारयति पारं प्रापयति । कान्, स्वाश्रितान् दानस्य कर्तृहेतुकत्रनुमन्तुन् । कस्मात्, जन्माब्धेः संसारादर्णवादिव । किंवत्, यानपात्रवत् यानपात्रभम्भाधिस्थं यथा स्वाश्रितान् साँयात्रिकादीन् समुद्रा. त्तारयति तथा संसारादाश्रितान् यत्तारयति तत्पात्रमित्यर्थः ॥ ४३ ॥ एतदेव विशेषयन्नाह-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy