________________
१४८
सागारधर्मामृते
mmmmmmmmmmmm
टीका-पूजयेदर्चयेत् असौ । उपवसन्नुपवासतपश्चरन् । कान्, पूज्यान् परमेष्टिश्रुतगुरून् । कया, पूजया आराधनया । किंविशिष्टया, भावमय्या सानुरागतद्गणानुस्मरणलक्षणया भावपूजार्थत्वात् द्रव्यपूजायाः । भावपूजा च सामायिकप्रसक्तत्वेनोपवसतः सिद्धेव । तदशक्तौ वा पूज्यान पूजया पूजयेत् । किंविशिष्टया, प्रासुकद्रव्यमय्या अक्षतमौक्तिकमालादिप्रकृतया। तथा दूरमत्यन्तं । उत्सृजेत् त्यजेदसौ। किं तत्, रागाङ्गं इन्द्रियमनःप्रीतिसाधनं गीतनृत्यादिकं ॥ ३९ ॥ एतद्रतातिचारपरिहारार्थमाह
ग्रहणास्तरणोत्सगांननवेक्षाप्रमार्जनान् ।
अनादरमनैकाग्र्यमपि जह्यादिह व्रते ॥ ४० ॥ टीका-जह्यात् त्यजेत् श्रावकः । कान्, ग्रहणास्तरणोत्सर्गान् त्रीन् । किंविशिष्टान्, अनवेक्षाप्रमार्जनान् । तथा अनादरं चतुर्थ । अनैकाग्यं च पञ्चमं । क्व, इहास्मिन् प्रोषधोपवासाख्ये व्रते । अत्र ग्रहणं अर्हदादिपूजोपकरणपुस्तकादेरात्मपरिधानाद्यर्थस्य वाऽऽदानं । उपलक्षणात्तन्निक्षेपोऽपि आस्तरणं संस्तरोपक्रमणं । उत्सर्गो विमूत्रादीनां त्यागः । अवेक्षा जन्तवः सन्ति न सन्तीति वा चक्षुषा अवलोकनं । प्रमार्जनं मृदुनोपकरणेन प्रतिलेखनं । अवेक्षा च प्रमार्जनं च अवेक्षाप्रमार्जने ते न विद्यते येषु तान् । इह चानवेक्षया दूरावेक्षणमप्रमार्जनेन च दुष्प्रमार्जनं संगृह्यते नञः कुत्सार्थस्यापि दर्शनात् । यथा कुत्सितो ब्राह्मणोऽब्राह्मणः । अनादरः क्षुत्पीडितत्वादावश्यकेष्वनुत्साहः प्रोषधव्रत एव वा । तद्वदनैकाग्यमपि अन्यमनस्कत्वम् ॥ ४०॥ अथातिथिसंविभागवतं लक्षयति
व्रतमतिथिसंविभागः पात्रविशेषाय विधिविशेषेण ।
द्रव्यविशेषवितरणं दातृविशेषस्य फलविशेषाय ॥४१ ।।। टीका-भवति । किं तद्रतं नियमेन सेव्यतया प्रतिपन्नत्वात् तथा च सति अतिथ्यलाभेऽपि तहानफलभाक्त्वोपपत्तेः । किं नाम, अतिथिसंविभागः अतिथेः सम्यक् निर्दोषो विभागः स्वार्थकृतभक्ताद्यंशदानरूपः। एतदेव व्यक्ती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org