________________
पञ्चमोध्यायः ।
१४७
सन्, स्वाध्यायरतः । एतेन निद्रालस्ये त्यजेदिति लक्षयति । किं कृत्वा, विधाय । किं तत्, आपराह्निकं अपराह्णे भवं कर्म सांध्यं क्रियाकल्प मित्यर्थः । किं कृत्वा, नीत्वा अतिक्रम्य । किं तत्, दिनं । किंविशिष्टः सन् 1 धर्मध्यानपर आज्ञापायविपाक लोकसंस्थानविचयैकाग्रचिन्तानिरोधलक्षणधर्मध्यानपरः । ध्यानोपर मे स्वाध्यायानुप्रेक्षाचिन्तनादिकमपि कार्यमिति परशब्देन प्रधानार्थेन सूच्यते । किंविशिष्टो भूत्वा, श्रितः अधिष्टितः । कां विविक्तवसतिं विविक्तां प्रासुकां अयोग्यजनरहितां निर्जनां वा वसतिं स्थानं । किं कृत्वा, लात्वा स्वीकृत्य । कं, उपवासं । किंवत्, यतिवत् यतिना तुल्यं यथा यतिर्भोजनानन्तरमेवोपवासं गृह्णाति विधिवत्सूरेश्व समीपं गत्वा पुनरुच्चारयति । सावद्यव्यापारं शरीरसंस्कारमब्रह्म च सदा त्यजति एवं प्रोषधे श्रावकोऽपि प्रवर्ततामित्यर्थः ॥ किं कृत्वा, भुक्त्या यथाविधि भोजनं कृत्वा । कथं, अतिथ्यशितोत्तरं अतिथेरशिताद्भोजनविधापनादनन्तरमतिथिं भोजयित्वेत्यर्थः । क्व, अर्धे । कस्य, पर्वपूर्वदिनस्य सप्तम्यास्त्रयोदश्याच अर्धे महरद्वये वा किञ्चिन्न्यूनेऽधिकेऽपि वा । समेऽप्यसमेऽपि वांऽशेऽर्धशब्दस्य रूढत्वात् ॥ ३६।३७ ॥
ततः माभातिकं कुर्यात्तद्वद्यामान् दशोत्तरान् । नीत्वाऽतिथिं भोजयित्वा भुञ्जीतालौल्यतः सकृत् ॥
टीका-कुर्याद्विध्यात् प्रोषधोपवासी । किं तत्, प्राभातिकं प्रभाते भवं कर्मावश्यकादिकं । कस्मात्, ततः यथोक्तविधिना प्रहरषट्कनयनादनन्तरं ततश्च भुज्जति भोजनं कुर्यात् असौ । कस्मादलौल्यतः भोजने आसक्तिमकृत्वेत्यर्थः । कथं, सकृदेकवारं पारणकदिनेऽप्येकभुक्तं कुर्यादित्यर्थः । किं कृत्वा, नीत्वा लङ्घयित्वा । कानू, यामान् प्रहरान् । कति दश । किंविशिष्टानुत्तरान् । अष्टावुपवासगोचराहोरात्रस्य द्वौ चोत्तरदिनस्य । किंवत्, तद्वत् पूर्वोक्तपट्हरवत् ॥ ३८ ॥
पूजयोपवसन् पूज्यान् भावमय्यैव पूजयेत् । मासुकद्रव्यमय्या वा रागाङ्गं दूरमुत्सृजेत् ॥ ३९ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org