________________
१४६
सागारधर्मामृतेक्रिया धारणकदिने द्वे उपवांसदिने चतुर्थी च पारणकदिने प्रत्याख्यायते । कस्यां, चतुष्पां चतुर्णा पर्वणां समाहारश्चतुष्प: तस्यां । मासे मासे द्वयोरष्टम्योश्चतुःश्योरित्यर्थः । कथं, यथागमं आगमानतिक्रमेण । किमर्थं, साम्य. संस्कारदाढाय साम्यस्य सामायिकस्य संस्कार उत्कर्षस्तस्य दाढ्यं स्थिरीकरणं परीषहाद्यापातेऽपि अविचलनं तस्मै। कदा, सदा सर्वस्मिन् काले यावजीवमित्यर्थः ॥ ३४ ॥ एवमुत्तमं प्रोषधविधानमुक्त्वा मध्यमं जघन्यं च तदुपदेष्टुमाह
उपवासाक्षमैः कार्योऽनुपवासस्तदक्षमैः ।
आचाम्लनिर्विकृत्यादि शक्त्या हि श्रेयसे तपः ।।३५ ।। टीका --कार्यः कर्तव्यः । कोऽसौ, अनुपवासः जलवर्जनचतुर्विधाहारत्यागः। ईषदुपवासोऽनुपवास इति व्युत्पत्तेः । कैः, उपवासाक्षमैः प्रागुक्तलक्षणमुप वासं कर्तुमसमथैः । तथा कार्य । किं तत् । आचाम्लनिर्विकृत्यादि । कैः, तद. क्षमैः अनुपवासमपि कर्तुमसमथैः । तत्राचाम्लमसंस्कृतसौवीरमिश्रौदनभो. जन । निर्विकृतिः विक्रियेते जिह्वामनसी येनेति विकृतिोरसेक्षुरसफलरस. धान्यरसभेदाच्चतुर्धा । तत्र गोरसः क्षीरघृतादिः, इक्षुरसः खण्डगुडादिः, फलरसो द्राक्षाम्रादिनिष्यन्दो, धान्यरसस्तैलमण्डादिः । अथवा यद्येन सह भुज्यमानं स्वदते तत्तत्र विकृतिरित्युच्यते । विकृतनिष्क्रान्तं भोजनं निर्विकृति । आदिशब्देनैकस्थानकभक्तरसत्यागादि । हि यस्मात् । भवति । किं तत्तपः । कस्मै, श्रेयसे पुण्याय वा । कया चरितं, शक्त्या बलेन वीर्येण च ॥ ३५॥ यथागममित्यस्यार्थं चतुःश्लोक्या व्याचष्टे
पर्वपूर्वदिनस्यार्धे भुक्त्वाऽतिथ्यशितोत्तरम् । लात्वोपवासं यतिवद्विविक्तवसतिं श्रितः ॥ ३६ ॥ धर्मध्यानपरो नीत्वा दिनं कृत्वाऽऽपराह्निकम् ।
नयेत्त्रियामां स्वाध्यायरतः प्रासुकसंस्तरे ॥ ३७ ।। टीका-नयेद्गमयेत् प्रोषधोपवासी । कां, त्रियामां रात्रि । क्व, प्रासुकसंरंतरे निर्जन्तुकायां भूमौ निर्जन्तुकैश्च तृणदर्भादिभिः कृते शयने। किंविशिष्टः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org