________________
पञ्चमोध्यायः ।
पञ्चात्रापि मलानुज्झेदनुपस्थापनं स्मृतेः।
कायवाङ्मनसा दुष्टप्रणिधानान्यनादरम् ॥ ३३ ॥ टीका-उज्झेत् त्यजेत् । फलार्थी। कान्, पञ्च मलान् । क, अत्रापि व्रतान्तरवत्सामायिकेऽपि । किं किं, स्मृत्यनुपस्थापनं कायवाङानसां दुष्टप्रणिधानानि श्रीणि, अनादरं च, तत्र स्मृतेरनुपस्थापनं सामायिके अनैकाग्र्यमित्यर्थः । अथवा सामायिकं मया कर्तव्यं न कर्तव्यमिति वा सामायिकं मया कृतं न कृतमिति वेति प्रबलप्रमादादस्मरणमतीचारः । स्मतिमूलत्वान्मोक्षमार्गानष्टानस्य । कायेत्यादि दुष्टप्रणिधानं सावधे प्रवर्तनं तत्र हस्तपा. दादीनामनिश्चलभृतत्वावस्थापनं कायदुष्प्रणिधानं । वर्णसंस्काराद्भवोऽर्थानवगमश्चापलं च वाग्दुष्प्रणिधानं । क्रोधलोभद्रोहाभिमानेादयः कार्यव्यासङ्गसम्भ्रमश्च मनोदुष्प्रणिधानं । एते त्रयोऽतीचाराः । मनोदुष्प्रणिधानस्य स्मृत्यनुपस्थापनस्य चायं भेदः क्रोधाद्यावेशात्सामायिके मनसश्विरमनवस्थापन प्रथमं । चिन्तायाः परिस्पन्दनादैकाग्र्येणानवस्थापनमन्यत्। अनादरोऽनुत्साहः प्रतिनियतवेलायां सामायिकस्याकरणं यथाकथञ्चिद्वा करणं। करणानन्तरमेव भोजनादिव्यासञ्जनं च । न चात्राविधिकृताद्वरमकृतमित्यसूयावचनं प्रमाणी. कृत्य भङ्गसम्भावनया सामायिकस्याप्रतिपत्तिः कर्तव्या। यतीनामप्यारम्भे भावितपूर्वत्वादेकदेशविराधनस्य सम्भवात् । न चैतावता तस्य भङ्गोऽपि मनसा सावधं न करोमीत्यादिप्रत्याख्यानेष्वेकतरभङ्गेऽपि शेषसद्भावान्न सामायिकस्यात्यन्ताभाव इत्यमीषामतिचारतैव । सुभावितसामायिकस्तु यदा श्रावको भविष्यति तदा तृतीयपदमेवाभ्युपगमिष्यतीति युक्तो व्रतिकस्यातिचारपरिहाराय यत्नः ॥ ३३ ॥ अथ प्रोषधोपवासव्रतं लक्षयति
स प्रोषधोपवासो यच्चतुष्पा यथागमम् ।
साम्यसंस्कारदात्याय चतुर्भुक्त्युज्झनं सदा ॥ ३४ ॥ टीका-भवति । कोऽसौ, सः प्रोषधोपवासः प्रोषधे पर्वण्युपवासः उपवसनं । यत्किं, यच्छ्रावकेण क्रियते । किं तत्, चतुर्भुक्तयुज्झनं चतसृणां भुक्तीनां भोज्यानामशनस्वाद्यखाद्यपेयद्रव्याणां भुक्तिक्रियाणां च त्यागः । एका हि भुक्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org