________________
१४४
सागारधर्मामृतेभवः स्वोपात्तकर्मोदयवशाच्चतुर्गतिविवर्तपरिवर्तनं । कथं, अन्यथा मोक्षविपरीतलक्षणः अनात्मा दुःखमनित्योऽशरणमित्यर्थः । अस्मिँश्च भवे । वसतोऽ वतिष्ठमानस्य मम किमन्यत्सुखदुःखादि स्यादभूदस्ति भविष्यति च किन्वा. पात एव पुनःपुनर्भवेदित्यर्थः ॥ ३० ॥ सामायिकसिध्द्यर्थमन्यत्र श्रावकेण किं कर्तव्यमित्यत्राह
स्नपना स्तुतिजपान् साम्यार्थ प्रतिमार्पिते ।
युंज्याद्यथाम्नायमाघाइते सङ्कल्पितेऽर्हति ॥ ३१ ॥ टीका-युज्यात्प्रयोजयेत् मुमुक्षुः । कान्, स्नपना स्तुतिजपान् स्नपनमाश्रुत्येद्यादौ व्याख्यास्यते, अर्चादयो ज्ञानदीपिकायामत्र च प्राग्यथास्थानं व्याख्याताः । क्व, स्नपनादीन युञ्ज्यात् अर्हति भगवदर्हदेवे । किंविशिष्टे, प्रतिमार्पिते साकारस्थापनामवतारिते । कथं, यथान्नायं उपासकाध्ययनाद्यागमानतिक्रमेण । किमर्थ, साम्याथ परमार्थसामायिकसिध्द्यर्थ अन्यत्र किं प्रयोक्तव्यमित्याह-आधादित्यादि-युङ्ग्यात्साम्यार्थी । किं तत्, आद्यात्स्नपनात् । ऋते विना अन्यदर्चादित्रयं । क्व, अर्हति । किंविशिष्टे, सङ्कल्पिते निराकारस्थापनार्पिते । एतेन कृतप्रतिमापरिग्रहाः सङ्कल्पिताप्तपूजाग्रहाश्चेति ये देवसेवाधिऽकृता इति सूच्यते ॥ ३१ ॥ सामायिकस्य सुदुष्करत्वशङ्कामपाकरोति
सामायिकं सुदुःसाधमप्यभ्यासेन साध्यते ।
निम्नीकरोति वार्बिन्दुःकिं नाश्मानं मुहुःपतन् ॥३२॥ टीका-साध्यते निष्पाद्यते । किं तत्, सामायिकं । केन, अभ्यासेन असकृत्प्रवृत्या । किंविशिष्टमपि, दुःसाधमपि अतिशयेन निष्पादयितुमशक्यमपि । अत्र दृष्टान्तमाह-किं न निम्नीकरोति अनिम्नं निम्नं करोति । कोऽसौ, वार्बिन्दुः । जलबिन्दुः । कम्, अश्मानं शिलां । किं कुर्वन् , पतन् । कथं, मुहु
रंवारं । अत्र बाह्या अप्याहुः-अभ्यासो हि कर्मणां कौशलमावहति । न हि सकृन्निपातमात्रेणोदबिन्दुरपि ग्राणि निम्नतामादधातीति ॥ ३२ ॥ - तदतिचारपरिहारार्थमाह
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org