________________
पञ्चमोध्यायः ।
१४३
मया न मोच्यते तावत्साम्यान्न प्रचलिष्यामीति प्रतिज्ञां करोति ॥ (साधु. स्वेनेत्यत्र साकल्येनेति पाठभेदः ) २८ ॥ सामायिकभावनासमयं नियमयन्नाह
परं तदेव मुक्त्यमिति नित्यमतन्द्रितः ।
नक्तं दिनान्तेऽवश्यं तद्भावयेच्छक्तितोऽन्यदा ॥२९॥ टीका-भावयेदभ्यस्येन्मुमुक्षुः । किं तत्सामायिकवतं । क्व, नक्तदिनान्ते नक्तं च दिनं च• नदिने तयोरन्ते निशावसाने दिवसावसाने चेत्यर्थः । कथं, अवश्यं नियमेन । अथवा नास्तिवश्यं व्याध्यादिपारतन्त्र्यं यत्र भावनकर्मणि तदवश्यं यथा भवति । किंविशिष्टः सन्, अतन्द्रितः अनलसः । कथं, नित्यं सर्वकालं । कुतो हेतोः, इति यतो भवति । किं तत्, तदेव सामायिकमेव । किंविशिष्टं, मुक्त्यङ्गं मोक्षसाधनं । किंविशिष्टं ,परमुत्कृष्टं । परमप्रकर्षप्राप्तचारित्रस्यैव साक्षान्मोक्षहेतुत्वसिद्धेः ॥ एवं तर्हि मध्याह्नादौ तन्न भाव. यितव्यमिति शङ्कायामिदमाह-शक्तितोऽन्यदेति । भावयेन्मुमुक्षुस्तत् । कदाs न्यदाऽन्यस्मिन्मध्याह्नादौ काले । कथं, शक्तितः स्वशक्तिमपेक्ष्य । नियमकाला दन्यदाऽपि तद्भावने दोषाभावाद्गुणसद्भावाच ॥ २९ ॥ ___सामायिकस्थेन परीषहोपसर्गोपनिपाते सति तयोर्जयार्थ किं ध्यातव्यमित्याह
मोक्ष आत्मा सुखं नित्यः शुभः शरणमन्यथा ।
भवोऽस्मिन्वसतो मेऽन्यत्किं स्यादित्यापदि स्मरेत्॥३०॥ टीका-स्मरेत् ध्यायेत् । कोऽसौ, प्रतिपन्नसामायिकः किं तत्, इति एतत् । कस्यां सत्यां, आपदि विनिपाते परीषहोपसर्गसंसर्गे इत्यर्थः । एतेन प्रतिपन्नसामायिकेन परीषहोपसर्गाः सोढव्या इत्याक्षिप्यते । किमेतदित्याह-- भवति । कोऽसौ, मोक्षः । किं, आत्मा अनन्तज्ञानादिरूपत्वात् । तथा सुख अनाकुलचिद्रूपत्वात् । तथा नित्यः अनन्तकालभाविप्रध्वंसाभावरूपत्वात् । तथा शुभः शुभकारणप्रभवत्वाच्छुभकार्यत्वाच्च । तथा शरणं समस्तविपदग. म्यतया अपायपरिरक्षणोपायत्वात् । संसारः किंरूप इत्याह-अस्ति । कोऽसौ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org