________________
१४२
सागारधर्मामृते
शब्दोच्चारणं विना आव्हानीयानां दृष्टौ स्वरूपस्यानुपातनं रूपानुपात्ताख्यमतिचारं । एतत् त्र्यं मायावितयाऽतिचारत्वं याति ॥ ३ ॥ प्रैषं मर्यादीकृतदेशे स्थित्वा ततो बहिः प्रेष्यं प्रत्येवं कुर्विति व्यापारणं । देशावकाशिकवतं हि मा भूद्गमनागमनादिव्यापारजीनतः प्राण्युपमर्द इत्यभिप्रायेण गृह्यते । स तु स्वयंकृतोऽन्येन कारित इति न कश्चित्फलविशेषः । प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुणः । परस्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति प्रेष्यप्रयोगं नाम चतुर्थमतिचारं त्यजेदिति सर्वत्र योज्यम् ॥ ४ ॥ ततश्चानयनं सीमबहिदेशादिष्टवस्तुनः प्रेष्येण विवक्षितक्षेत्रे प्रापणं । चशब्देन सीमबहिर्देशे स्थितं प्रेष्यं प्रति इदं कुर्वित्याज्ञापनं वा । एतौ चाव्युत्पन्नबुद्धितया सहसाकारादिना वाऽतिचारौ स्तः । सर्वत्र च-र -सापेक्षस्य व्रते हि स्यादतिचारोंऽशभञ्ज नम् - इत्युपजीवम् ॥ २७ ॥ अप्ररूपितस्वरूपस्यानुष्ठानं न स्यादिति सामायिकस्वरूपं प्ररूपयतिएकान्ते केशवन्धादिमोक्षं यावन्मुनेरिव ।
स्वं ध्यातुः सर्वहिंसादित्यागः सामायिकत्रतम् ||२८|| टीका — भवति । किं तत्, सामायिकवतं समस्य रागद्वेषविमुक्तस्य सतः अयो ज्ञानादीनां लाभः प्रशमसुखरूपः स समायः, समाय एव सामायः सामायः प्रयोजनमस्येति वा सामायिकं रागद्वेषहेतुषु मध्यस्थतेत्यर्थः अथवा समय आप्तसेवोपदेशस्तत्र नियुक्तं कर्म सामायिकं व्यवहारेण जिनस्नपनार्चास्तुतिजपाः । निश्चयेन च स्वात्मध्यानमेव सामायिकं । सामायिक मेवव्रतं सामायिकवतं । किं, सर्वहिंसादित्यागः सर्वत्र सर्वेषां च हिंसादीनां प्रमत्तयोगभाविनां प्राणव्यपरोपणादिपञ्चपापानां त्यागः परिहारः सर्वत्रेति व्याख्यानाद्देशावकाशिकादस्य भेदः सूच्यते । कस्य, शिक्षात्रतिनः । किंविशिष्टस्य, ध्यातुः साधुत्वेन ताच्छील्येन वा ध्यायतः । कं, स्वमात्मानं अन्तर्मुहूर्तमात्रं धर्म्यध्याननिष्ठस्येत्यर्थः । कस्येव, मुनेरिव सर्वारम्भपरिग्रहाग्रह - -रहितत्वाद्यतिना तुल्यस्य । क्क, एकान्ते विविक्तस्थाने । कियत्कालं, केशब - -न्धादिमोक्षं यावत् केशबन्ध आदिर्येषां मुष्टिबन्धवस्त्रग्रन्थ्यादीनां गृहीतनियमकालावच्छेदहेतूनां ते केशबन्धादयः तेषां मोक्षो मोचनं तमवधीकृत्य स्थितस्येत्यर्थः । सामायिकं हि चिकीर्षुर्यावदयं केशबन्धो वस्त्रग्रन्ध्यादिर्वा
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org