________________
पञ्चमोध्यायः ।
दिग्वतपरिमितदेशस्तस्य विभागस्तत्काले स्वावस्थानविषयीकृतोऽशस्त-. स्मिन् । किंविशिष्टमवस्थानं, मितसमयं परिमितकालं ॥ १५ ॥ तद्वतयुक्तं लक्षयति
स्थास्यामीदमिदं यावदियत्कालमिहास्पदे ॥ . इति सङ्कल्प्य सन्तुष्टस्तिष्ठन्देशावकाशिकी ॥ २६ ॥ ___टीका-भवति । कोऽसौ,श्रावकः । किंविशिष्टो,देशावकाशिकी। किं कुर्वन् ,. तिष्ठन् लक्षणहेत्वोः क्रियाया इति शतृच । कालपरिच्छित्त्या नियतदेशे सन्तुष्टतयाऽवस्थानेन देशावकाशिकवतित्वपरिमाणस्य लक्ष्यमाणत्वात् । किं कृत्वा, संङ्कल्प्य मनसा सम्प्रधार्य । कथं, इति । किमिति स्थास्यामि स्थिति करिप्याम्यहं । क, इहास्मिन्नास्पदे स्थाने । कथं, इदमिदं यावत् गृहगिरिग्रामादिमवधिं कृत्वा । कियत्कालं, इयत्कालं घटिकादिप्रहरदिनादिमानं । किंवि. शिष्टः सन्, सन्तुष्टः सीमभ्यो बहिनिगृहीततृष्णः सन् । दिवतवदस्यापि नियमितदेशाद्वहिर्लोभनिग्रहेण हिंसादीनां च सर्वशो निवर्तनेनात्र फलवत्त्वात् अमुत्राज्ञैश्वर्यसम्पादकत्वाच्च सुतरां करणीयत्वं चास्य शिक्षाव्रतत्वं शिक्षाप्रधानत्वात्परिमितकालभावित्वाच्चोच्यते ।न खल्वेतद्दिग्व्रतवद्यावज्जीविकमपीयति॥यत्तु तत्त्वार्थादौ गुणव्रतत्वमस्य श्रूयते तदिग्वतसंक्षेपणलक्षणत्वमात्रस्येव विवक्षित्वाविवक्षितत्वाल्लक्ष्यते । दिग्वतसंक्षेपकरणं चात्रागुणव्रतादिसंक्षेष. कारणस्याप्युपलक्षणं द्रष्टव्यं । एषामपि संक्षेपस्यावश्यकर्तव्यत्वात्प्रतिव्रत च संक्षेपकरणस्य भिन्नव्रतत्वे गुणाः स्यु‘दशेति संख्याविरोधः स्यात् ॥ २६ ॥ तद्ब्रतातिचारत्यागार्थमाह
पुद्गलक्षेपणं शाब्दश्रावणं
प्रैषं सीमबहिर्देशे ततश्चानयनं त्यजेत् ॥ २७ ।। टीका-त्यजेत् तद्वतनैमल्यार्थी । किं, पुद्गलक्षेपणादिपञ्चकं । तत्र पुगलक्षेपणं परिगृहीतदेशाद्रहिः स्वयमगमनात्कार्यार्थितया व्यापारकारकाणां चोदनाय लोष्ठादिप्रेरणं ॥१॥ शद्वश्रावणं शब्दरयाभ्युत्कशिकादेः श्रावणमाव्हानीयानां श्रोत्रेऽनुपातनं शब्दानुपातनं नामातिचारमित्यर्थः ॥२॥ स्वाङ्गदर्शनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org