________________
सागारधर्मामृते
रसवाणिज्यं नवनीतादिविक्रयः । नवनीते हि जन्तुसमूर्छन । मधुवसामद्यादौ तु जन्तुघातोद्भवत्वं । मद्येन मदजनकत्वं तद्गतक्रिमिविघातश्चेति तद्विक्रयस्य दुष्टत्वं ॥ १५॥
इति केचित् एवं सिताम्बराचार्या अवते । न तच्चारु तदसुन्दरं । कुत, अगण्यत्वात् परिसंख्यातुमशक्यत्वात् । केषां, सावद्यकर्मणां सपापक्रियाणां। क्व, लोके व्यवहारार्थिजने वर्तमानानां। प्रणेयं वा प्रतिपाद्यं वा । किं तत् तदपि खरकर्मव्रतमपि । कथं, प्रति उद्दिश्य । कान्, अतिजडान् अतिमुग्धबुद्धीन् । जडान् प्रति सबहुघातेत्यादिनैवोक्तत्वादिति भावः ॥ इति गुणवतप्रकरणम् ॥ २१॥२२॥२३ ।। अथ शिक्षाव्रतविधानार्थमाहशिक्षावतानि देशावकाशिकादीनि संश्रयेत् ।
श्रुतचक्षुस्तानि शिक्षाप्रधानानि व्रतानि हि ॥ २४ ॥ टीका-संश्रयेत् प्रतिपद्येत श्रावकः । कानि, शिक्षाव्रतानि शिक्षा विद्योपानं, शिक्षाप्रधानानि व्रतानि शिक्षावतानि । किंविशिष्टानि, देशावकाशिकादीनि देशावकाशिकं, सामयिक, प्रोषधोपवासं, अतिथिसंविभागं च । कथम्भूतो भूत्वा, श्रुतिचक्षुः श्रुतज्ञानलोचनः । कुत, इत्याह-हि यस्मात् भवन्ति । कानि, तानि व्रतानि । किंविशिष्टानि, शिक्षाप्रधानानि ॥ २४ ॥ देशावकाशिकं निरुक्त्या लक्षयतिदिखतपरिमितदेशविभागेऽवस्थानमस्ति मितसमयम् ।।
यत्र निराहुर्देशावकाशिकं तद्वतं तज्ज्ञाः ॥ २५ ॥ टीका-निराहुः प्रकृतिप्रत्ययादिविभागेन निश्चितं ब्रुवन्ति । के, तज्ज्ञाः तद्रतनिर्वचनविदः । किं, तद्वतं । किमाख्यं, देशावकाशिकं देशे दिग्वतगृहीतपरिमाणस्य क्षेत्रस्य विभागे अवकाशोऽवस्थानं देशावकाशः, सोऽस्मिन्नस्तीति । यत्र यस्मिन् व्रते। अस्ति विद्यते । किं तदवस्थानमवस्थितिः श्रावकस्य । क, दिगित्यादि-दिग्बते परिमितः प्रतिपन्नपरिमाणो देशः क्षेत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org