________________
पञ्चमोध्यायः ।
१५५ दद्यात् । कस्मात्, हिंसार्थत्वात प्राणिवधनिमित्तत्त्वात् । एतस्योत्तरस्य च समर्थनं ज्ञानदीपिकायां विस्तरतोऽभिहितं प्रतिपत्तव्यं । न च दद्यान्नैष्ठिकः स्वद्रव्यं । कस्मिन् , ग्रहसंक्रान्तिश्राध्दादौ ग्रहः सूर्याचन्द्रमसोरुपरागः,संक्रान्तिः सूर्यस्य राश्यन्तरसंक्रमणं श्राध्दं, मृतपित्राद्युद्देशेन दानं, ग्रहश्च संक्रान्तिश्च श्राद्धानि तान्यादयो यस्य वारव्यतिपादादैर्बादैः पुण्यार्थत्वेन समर्थितस्य पर्वणस्तद्ग्रहादि पर्व तस्मिन् । तस्य पुण्यार्थदानविषयत्वकल्पनायां दोषसमर्थनार्थमाह-किंविशिष्टे तत्र, सुदृग्नुहि सम्यक्त्वघातके । यद्यपि च नैष्टिक इति वचनात्याक्षिकस्यानुत्पन्नसम्यक्त्वावस्थतया भूम्यादिदानं . न प्रतिषिध्यते तथापि ग्रहणादौ तस्यापि दानमविधेयमेव सम्यक्त्वोपघातस्य तेनाप्यवश्यपरिहार्यत्वात् ॥ ५३ ॥
तव्रतातिचारपरिहारार्थमाह--
त्याज्याः सचित्तनिक्षेपोऽतिथिदाने तदावृतिः ।
सकालातिक्रमपरव्यपदेशश्च भत्सरः ।। ५४ ॥ टीका-त्याज्याः तद्वतिना वर्जनीयाः । के ते, सचित्तनिक्षेपस्तदावृतिः कालातिक्रमपरव्यपदेशाभ्यां सह मत्सरश्चेत्यमी पञ्चातिचाराः । क्क, अतिथिदाने अतिथिसंविभागवते । तत्र सचित्तनिक्षेपः-सचित्ते सजीचे पृथिवीजलकुम्भोप( चुल्लि )भुवल्लिधान्यादौ निक्षेपो देयस्य वस्तुनः स्थापनं । तच्चादानबुध्द्या तत्र निक्षेप्यमाणमतिचारः । तुच्छबुद्धिः खलु सचित्तनिक्षिसं किल संयता न गृह्णन्तीत्यभिप्रायेण देयं सचित्ते निक्षिपतीति तच्च । संयतेस्वगृह्णत्सु लाभोऽयं ममेति च मन्यते इति प्रथमः ॥ १ ॥ तदावृतिः तेन सचित्तेन पत्रपुष्पादिना तथाविधयैव बुध्द्या आवृतिराच्छादनं द्वितीयः ॥ अथवा सचित्तनिक्षिप्तं तपिहितं च संयतस्याजानतः प्रयुज्यमानमतीचारः ॥२॥कालातिक्रमः साधूनामुचितस्य भिक्षासमयस्य लङ्घनं । स च यतीनयोग्ये काले भोजयतोऽनगारवेलाया वा प्रागेव पश्चाद्वा भुञानस्य च तृतीयः स्यात् ॥ ३ ॥ परव्यपदेशः परस्यान्यस्य सम्बन्धीदं गुडखण्डादीति विशेषेणापदेशो व्याजाद्यदि वाऽयमत्र दाता दीयमानोऽप्ययमस्येति समर्पणं चतुर्थः ॥ ४ ॥ मत्सरः कोपः । यथा मार्गितः सन् कुप्यति, सदपि वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org