________________
पञ्चमोध्यायः ।
त्यक्षयामि तस्यैव सचेतनत्वात् कटांहं तु भक्षयिष्यामि तस्याचेतनत्वादिति बुध्या पक्कं खर्जूरादिफलं मुखे प्रक्षिपतः सचित्तवर्जकस्य सचित्तप्रतिबद्धाहारोऽसौ द्वितीयः ॥ २ ॥
सम्मिश्रं तेन सचित्तेन व्यतिकीर्ण विभक्तमशक्यं सूक्ष्मजन्तुकमित्यर्थः । अथवा सचित्तशबलं तत्संमिश्रं यथा आर्द्रकदाडिमबीज चिर्भटादिमिश्रं पूर'णादिकं तिलमिश्रं च यवधानादिकं अयमपि पूर्ववदति चारस्तृतीयः ॥ ३ ॥
१३७
दुष्पकं सान्तस्तण्डुलभावेन अतिक्लेदनेन वा दुष्टं पक्कं मन्दपक्कं वा दुष्पकं तच्चार्धस्विन्नं पृथुकतण्डुलयवगोधूमस्थूलमण्डकफलादिकमामदोषावहत्वेनैहिकप्रत्यवायकारणं । तथा यावतांशेन तत्सचेतनं तावता तत्परलोकमध्यपहन्ति । पृथुकादेर्दुष्पकतया किञ्चित्सचेतनावयवत्वात्पक्वत्वाच्च चेतनाचेतनमिति भुञ्जानस्यातिचारश्चतुर्थः ॥ ४ ॥
अभिषवं सौवीरादिद्रवं वा वृष्यं वा । अयमप्यतिक्रमादिनाऽतिचारः
पञ्चमः ॥ ५ ॥
चारित्रसारे पुनः सचित्ताद्याहाराणामतिचारत्वोपपादनार्थमिदमुक्तं एतेषामभ्यवहरणे सचित्तोपयोग इन्द्रियमदवृद्धिर्वाताविप्रकोपो वा स्यात् । -तत्प्रतीकारविधाने पापलेपो भवति । अतिथयश्चैनं परिहरेयुरिति ।।
अत्राह स्वामी यथा-विषय विषतोऽनुपेक्षाऽनुस्मृतिरतिलोल्यमतितृषानुभवा ॥ भोगोपभोगपरिमा व्यतिक्रमाः पञ्च कथ्यन्ते ॥ १ ॥ विषयविषतो विपकल्पेषु विषयेषु अनुपेक्षा आदरो विषयानुभवात्तद्वेदनाप्रतीकारे जातेऽपि पुनरभीष्टाङ्गनासम्भाषणालिङ्गनाद्यवर्जनरूपः प्रथमः || अनुस्मृतिस्तु तदनुभवात्तत्प्रतीकारे जातेऽपि पुनः पुनर्विषयाणां सौन्दर्यसुखसाधनत्वाद्यनुचिन्तनमत्यासक्तिहेतुत्वादतिचारः ॥ अतिलौल्यं अतिगृद्धिस्तत्परिहारे जातेऽपि पुनः पुनस्तदनुभवाकांक्षेत्यर्थः ॥ अतितृषा कामिनी भोगादेरतिगृध्या प्रात्याकांक्षा । अत्यनुभवो नियतकालेऽपि यदा भोगोपभोगावनुभवति तदा अत्यासक्त्याऽनुभवति, न पुनर्वेदनाप्रतीकारतयाऽतोऽतिचार इति ॥ एतेऽपि चात्र ग्रन्थे परेऽप्यूह्यास्तदत्यया इतिवचनत्संगृहीता एव ॥
तद्वच्चेमेऽपि श्रीसोमदेवबुधाभिमता :- दुष्पक्वस्य निषिद्धस्य जन्तुसम्बद्धमिश्रयोः ॥ अवीक्षितस्य च प्राशस्तत्संख्याक्षतिकारणम् ॥ १ ॥ अत्राह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org