________________
१३८
सागारधर्मामृते
सिताम्बराचार्यः-भोगोपभोगसाधनं यद्व्यं तदुपार्जनाय यत्कर्म व्यापारस्त. दपि भोगोपभोगशब्देनोच्यते कारणे कार्योपचारात् । ततः कोहपालनादिख. रकर्मापि त्याज्यं । तत्र खरकर्मत्यागलक्षणे भोगोपभोगवते अङ्गारजीविकादीन् पञ्चदशातिचाराँस्त्यजोदिति । तदचारु । लोके सावद्यकर्मणां परिगणनस्य कर्तुमशक्यत्वात् । अथोच्यते अतिमन्दमतिप्रतिपत्त्यर्थं तदुच्यते तर्हि तान्. प्रतीदमप्यस्तु । मन्दमतीन् प्रति पुनस्त्रसबहुधातविषयार्थत्यागोपदेशेनैव तत्प. रिहारस्य प्रदर्शितत्वादिति ॥ २० ॥ एतदेव श्लोकत्रयेण संगृह्णन्नाह
व्रतयेत्खरकर्मात्र मलान् पञ्चदश त्यजेत् । वृत्तिं वनग्न्यनस्फोटभाटकैयन्त्रपीडनम् ॥ २१ ॥ निर्लाञ्च्छनासतीपोषौ सर शोषं दवप्रदाम् । विषलाक्षादन्तकेशरसवाणिज्यमाझिरुक् ॥ २२ ॥ इति केचिन्न तच्चारु लोके सावद्यकर्मणाम् ।
अगण्यत्वात्मणेयं वा तदप्यतिजडान् प्रति ॥ २३ ॥ टीका-व्रतयेत् प्रत्याख्यायाच्छ्रावकः । किं तत्, खरकर्म खरं कूरं प्राणिबाधकं कर्म व्यापारं । तथा त्यजेत् तद्वती। कान्, मलान् कर्मादानसज्ञान्। कति, पञ्चदश वृत्तिमित्यादिना निर्दिष्टान् । क्व, अत्र खरकर्मव्रते । अत्र तावत् वृत्तिं जीविकां त्यजेत् । कैः, वनाग्न्यनःस्फोटभाटकैः वनं चाग्निश्च अनश्च स्फोटश्च भाटकं च तैः पञ्चभिः । तथा यन्त्रपीडनं त्यजेत् । तथा निर्लान्च्छनासतीपोषौ त्यजेत् निर्लाञ्छनं चासतीपोषश्चेति द्वन्द्वः। तथा सरःशोषं त्यजेत् । तथा दवप्रदां दवदानं त्यजेत् । तथा विषादिवाणिज्यपञ्चकं त्यजेत् । किंविशिष्टं, अङ्गिरुक । प्राणिबाधकं ॥
तत्र वनजीविका छिन्नस्याच्छिन्नस्य वा वनस्पतिसमूहादेविक्रयेण तथा गोधूमादिधान्यानां घरट्टशिलादिना पेषणेन दलनेन वा वर्तनम् ॥ १ ॥ · अग्निजीविका अङ्गारजीविकाख्या षड्जीवनिकायविराधनाहेतुना अङ्गारकरणाद्यग्निकर्मणा जीवनं ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org