________________
१३६
सागारधर्मामृते
......wwwwwwwwwwwwwwwwwwwwwwwwww
युर्वेदे प्रसिद्धत्वात् ससम्मूछनस्य च दृष्टत्वेन सम्भाव्यमानत्वादभोज्यत्वं । एतेन रूढानामपि तेषां निषेध उक्तः स्यात् । तथा नाहरेत् । किं तत्. पत्रशाकं पत्ररूपं हरीतकं न तु फलादिरूपं । तत्र तत्परजन्तुभूयिष्टत्वात् । कदा, वर्षासु तदा सस्थावरसंसक्तिबहुलत्वात्पनशाकस्याल्पफलत्वाच्च ॥ १८ ॥ एतद्रतस्य विशेषादानृशंस्यसिध्द्यङ्गत्वमुपदिशति--
भोगोपभोगक्रशनात्कृशीकृतधनस्पृहः ।
धनाय कोट्टपालादिक्रियाः क्रूराः करोति कः ॥१९॥ ___टीका--कः करोति न कोऽपि विदधातीत्यर्थः । किंविशिष्टः, कृशीकृतध. नस्पृहः स्वल्पीकृतद्रविणाभिलाषः । कस्मात्, भोगोपभोगक्रशनात् भोगोपभोगयोर्विवेकबलेनाल्पीकरणात् । काः कोपालादिक्रियाः तलारबन्दिपालवीतपालशौल्किकादिव्यापारान् । किंविशिष्टाः क्रूराः प्राणिघातकर्कशाः । किमर्य, धनाय द्रव्यार्थम् ॥ १९ ॥ भोगोपभोगव्रतातिचारपञ्चकं लक्षयति
सचित्तं तेन सम्बद्धं सम्मिश्रं तेन भोजनम् ।
दुष्पकमप्यभिषवं भुञ्जानोऽत्येति तद्वतम् ।। २० ॥ टीका--अत्येति अतिचरति श्रावकः । किं तत्, तद्वतं भोगोपभोगपरिमाणवतं । किं कुर्वाणो, भुञानोऽभ्यवहरन् । किं तत्, भोजनं भुज्यत इति भोजनमाहारो भोज्यद्रव्यं । किं किं, सचित्तं तेन सम्बद्धं सम्मिश्रं तेन सचित्तेन सम्मिश्रं सम्बद्धं । दुष्पकमभिषवं च । अपिश्चार्थे । तत्र सचित्तं चेतनावद्र्व्यं हरितकायं । अपक्वं कर्वट्यादि । सबहुधातेत्यादिना निषिद्धेऽप्यत्र प्रवृत्तौ भङ्गसहावेऽप्यतिचाराभिधानं व्रतसापेक्षस्याप्रणिधानाति. क्रमादिना प्रवृत्तौ द्रष्टव्यमिति प्रथमः ॥ १ ॥
तेन सम्बद्धं सचित्तेनोपश्लिष्टं सचेतनवृक्षादिना संबद्धं गोन्दादिकं पक्कफलादिकं वा सचित्तान्नीजं खजूराम्रादि च तद्भक्षणं हि सचित्तभोजन. वर्जकस्य प्रमादादिना सावद्याहारप्रवृत्तिरूपत्वादतचारः । अथवा बीजं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org