________________
पञ्चमोध्यायः ।
१३५
भवति च । कोऽसौ, घातः तद्भक्षणे वधः । केषां, भूयसां बहुतराणां तदाश्रितजीवानाम् ॥ १६ ॥ उक्तमेवार्थ व्रतदाार्थं पुनर्विशेषतोऽभिधत्ते
अनन्तकायाः सर्वेऽपि सदा हेया दयापरैः।
यदेकमपि तं हन्तुं प्रवृत्तो हन्त्यनन्तकान् ।। १७ ॥ टीका-हेयाः प्रत्याख्येयाः। सदा नित्यं । के, अनन्तकायाः। कति,सर्वेऽपि । कैः, दयापरैः अनुकम्पाप्रधानैः श्रावकैः । कुत, इत्याह-यद्यस्मात् । हन्ति हिनस्ति । कोऽसौ, पुरुषः । कान्, अनन्तकान् अनन्तप्रमितान् जीवान् कशब्देनात्र जीवार्थस्य विवक्षितत्वादनन्ताश्च ते कायाश्च जीवाश्चेति विग्रहः । किंविशिष्टः, प्रवृत्तः । किं कर्तुं, हन्तुं भक्षणादिद्वारेण मारयितुं । कं, तमनन्तकायं । किंविशिष्टं, एकं व्यवहारेणैकसंख्यमपि किं पुनादीन् । एते चानन्तै वैरुपलक्षित: कायो येषां तेऽनन्तकाया मूलादिप्रभवा वनस्पतिकायिकाः । तथा हि मूलजा आर्द्रकहरिद्राप्रभृतयः । अग्रजा आर्यकोदिश्च ( ? ) प्रभतयः । पर्वजा देवनालेखुवत्रादयः । कन्दजाः. पलाण्डुसूरणादयः । स्कन्धजाः सल्लकीकण्टकप. लाशादयः । बीजजाः शालिगोधूमादयः । सम्मूछिमाः नियतबीजाभावे स्वयोग्यपुद्गलैर्निष्पन्नशरीराः । उक्तं च-मूलग्गपोरबीजा कंदा तह खंदबीजबी. जरुहा । सम्मुच्छिमा य भणिया पत्तेया णंतकाया य ।। १७ ॥
आमगोरससम्पृक्तं द्विदलं प्रायशोऽनवम् ।
वर्षास्वदलितं चात्र पत्रशाकं च नाहरेत् ॥ १८ ॥ टीका-नाहरेत् न भक्षयेद्दयापरः । किं तत्, द्विदलं मुद्माषादिधान्यं । किंविशिष्टं, आमेत्यादि-आमेनानग्निपक्वेन गोरसेन क्षीरेण दध्ना अक्कथित क्षीरादिसम्भूतेन तक्रेण च सम्पृक्तं मीलितं । तद्धि सूक्ष्मबहुलजन्त्वाश्रितमा. गमे श्रूयते । तथा नाहरेत् । किं तत्, द्विदलं । किंविशिष्टं, अनवं पुराणं । कथं, प्रायशः प्रायोग्रहणात्पुराणस्यापि चिरकालकृष्णीभूतकुलित्थादेरदृष्टजन्तुसम्मूर्छनस्याप्रतिषेधः । तथा नाहरेत् । किं तत्, द्विदलं । किंविशिष्टं, अद. लितमकृतद्विधाभावं । कदा, वर्षासु प्रावृषि हि मुद्दादीनामन्तःप्ररोहस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org