________________
१३४
सागारधर्मामृते
द्वीन्द्रियादिजीवाः बहवः प्रचुरास्त्रसस्थावरजीवा: साश्च बहवश्च
सबहवस्तेषां घातौ ब्रसबहुघातौ त्रसघातो बहुघातश्चेत्यर्थः । प्रमादो धर्म_शनोपायः। सबहुघातौ च प्रमादश्च सबहुधातप्रमादाः ते विषया यस्य स त्रसबहुघातप्रमादविषयः । किंविशिष्टोऽखिल: सर्वः । किंवत्, पलमधुमद्यवत् । यथा सघाताश्रयत्वापिशितं त्यज्यते, यथा च बहुवधाश्रयस्वान्माक्षिकं त्यज्यते, यथा च प्रमादाश्रयत्वान्मद्यं त्यज्यते तथा यथासंख्यं
सवाताद्याश्रयोऽर्थस्त्याज्य इत्यर्थः । तत सघातविषयोऽन्तःसुषिरप्रायं नालीनलपलक्यामृणालनालप्रमुखमागन्तुजन्तूनां सम्मूछिमजन्तूनां च योग्यमध्यावकाशं तथा बहुजन्तुयोग्यस्थानं केतकीनिम्बार्जुनारणिशिग्रुपुष्पमधूकबिल्वादिफलादि च वस्तु ।' बहुघातविषयो गुडूचीमूलकलशुनाशृङ्गबेरादिकं । प्रमादविषयो दूषिविषभाङ्गिकाधत्तरकादि वस्तु । एतेन धनार्थ क्रूरव्यापाराणामपि त्याज्यत्वमुक्तं. प्रतिपत्तव्यं । तथा त्याज्यो धर्मार्थिना । कोऽसौ, अखिलोऽर्थः । किंविशिष्टोऽनिष्टः । कथं, अन्यथाऽपि त्रसघाताद्यविषयोऽप्यर्थो योऽनिष्टो यदा स्वस्याप्यनभिमतः प्रकृतिसात्मको न भवति सोऽपि तदा प्रत्याख्येय इत्यर्थः । तथा त्याज्यः । कोऽसौ, अखिलोऽर्थः । किंविशिष्टो,अनुपसेव्यः इष्टोऽपि शिष्टानां शीलनायोग्यः चित्रवस्त्रविकृतवेषा. भरणादिरुद्वारलालामूत्रपुरीषश्लेष्मादिश्च । एतत्प्रत्याख्यानस्याप्यभिमतार्थहेतुत्वमुखेन करणीयत्वं समर्थयते व्रताद्धि फलमिष्टमिति-हि यस्माद्भवति । किं तत्, फलं साध्यं । किंविशिष्टं, इष्टमभिप्रेतमभ्युदयादिकं । कस्मात्, व्रतात् योग्याद्विषयादभिसन्धिकृताया विरतेः ॥ १५ ॥ उक्तमेवार्थ संव्यवहारप्रसिध्द्यर्थं श्लोकत्रयेण दर्शयति
नालीमूरणकालिन्दद्रोणपुष्पादि वर्जयेत् ।
आंजन्म तद्भुजां ह्यल्पं फलं घातश्च भूयसाम् ॥१६॥ टीका-वर्जयेत् धर्मार्थी त्यजेत् । किं तत्, नालीत्यादि-आदिशब्देन मूल. काकनिम्बकुसुमकेतकादि । कथं, आजन्म यावज्जीवं । कुत, इत्याह-हि यस्मात् भवति । किं तत्, फलं जिव्हेन्द्रियप्रीणनमात्रं । किंविशिष्टं, अल्पं स्तोकं भक्ष्यमाणक्षणमात्रभावि । केषां, तद्भुजां नालीसूरणादिभक्षकाणां)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org