________________
पञ्चमोध्यायः।
१३३
व्याख्यात्वियं । वा अथवा । सेव्यः कोऽसौ, अयं भोगः । केन, मया। कियान, इयान् एतावान् । कं, समयं । किंविशिष्टं, इयन्तं । तथा उपभोगोऽयं समयमियन्तं न सेव्यो मयेत्येकं उपभोगोऽयमियान्वा समयमियन्तं मया न सेव्य
ति द्वितीयं । एतयोरापे पूर्ववद्ध्याख्या ॥ १३ ॥ - भोगापेभोगयोर्लक्षणं तत्त्यागस्य च यावज्जीविकस्य नियतकालस्य च सज्ञाविशेषावाचष्टे
भोगः सेव्यः सकृदुपभोगस्तु पुनःपुनः खगम्बरवत् ।
तत्परिहारः परिमितकालो नियमो यमश्च कालान्तः ॥१४॥ ___टकिा--स भोगो भण्यते । यः सकृदेकवार सेव्यः सेव्यते भुक्त्वा पुनर्न भुज्यते इत्यर्थः । किंवत्, स्रग्वत् उपलक्षणान्माल्यचन्दनताम्बूलादिर्यथा । स उपभोगो भण्यते तुर्विशेषे । यः पुनः पुनः सेव्यो भूयोभूयः सेव्यते सेवित्वाऽपि पुनः सेव्यते इत्यर्थः । किंवत्, अम्बरवत् अत्राप्युपलक्षणाद्वस्वाभरणकामिन्यादिर्यथा । अथवा स्त्रगम्बरवच्चेति भोगोपभोगलक्षणयोर्यथासंख्यमुदाहरणे उदाहरणस्य .दिङ्मात्रप्रदर्शकत्वात् । एवं तयोर्लक्षणमुक्त्वा तत्यागविशेषयोः सज्ञाविशेषप्रकाशनार्थमाह तदित्यादि--. व्यपदिश्यते । कोऽसौ, तत्परिहारः किं, नियमः। नियम इति सज्ञया व्यवन्हियते इत्यर्थः किंविशिष्टः, परिमितकालः एकद्विव्यादिसंख्यापरिच्छन्नदिवसमासादिसमयः। तथा व्यपदिश्यते । कोऽसा, तत्परिहारः। किं, यमः यम इति नाम्नव्यवव्हियत इत्यर्थः । किंविशिष्टः, कालान्तः कालो मरणमन्तोऽवसानं यस्य स कालान्तो मरणपर्यन्त इत्यर्थः ॥ १४ ॥
वसघातबहुबधप्रमादविषयानिष्टानुपसेव्यार्थत्यागवतपञ्चकमप्यत्रैवान्तर्भाचयितुमाह
पलमधुमद्यवदखिलस्त्रसबहुघातप्रमादविषयोऽर्थः ।
त्याज्योऽन्यथाऽप्यनिष्टोऽनुपसेव्यश्च व्रताद्धि फलमिष्टम् ।। • टीका--त्याज्यः प्रत्याख्यातव्यः । कोऽसौ, अर्थ इन्द्रियोपभोग्यो रसश्च । केन, भोगोपभोगपरिसंख्यानव्रतिना । किंविशिष्टः, सेत्यादि--त्रसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org