SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ANA.AnohnAAAAAAAAA. १३२ सागारधर्मामृतेशेषमन्ये बहवोऽर्थिनः सन्ति तेऽपि क्रेष्यन्ति अहं विक्रापयिष्यामीत्येवमनालोच्य बह्वारम्भतणाजीविभिः कारयति । एवं काष्ठच्छेदेष्टकापाकादिष्वपि वाच्यं । तथाहि स्वोपकरणं हिंसोपकरणान्तरेण संयुक्तं धारयति यथा संयुक्तमुलूखलेन मुसलं हलेन फालं शकटेन युगं धनुषा ारान् इत्यादि । तथा सति यःकश्चित् संयुक्तमुलूखलमुसलादिकमाददीत । वियुक्ते तु तस्मिन् सुखेन परः प्रतिषेध्दुं शक्यते । एतध्दिसोपकारिदानविरतेरतीचारः । सेव्यार्थाधिकतां सेव्यस्य भोगोपभोगलक्षणस्य जनको यावानर्थस्ततोऽधिकस्य तस्य करणं भोगोपभोगानर्थक्यामित्यर्थः । अत्रायं सम्प्रदायः यदि बहूनि स्नानसाधनानि तैलखल्यामलकादीनि गृह्णाति तदा लौल्येन बहवः स्नानार्थ तडागादौ गच्छन्ति । ततश्च पूरकायाप्कायिकादिवधोऽधिकः स्यात् । न चैवं युज्यते ततो गृह एव स्नातव्यं । तदसम्भवे तु तैलादिभिगृह एव शिरो घर्षयित्वा तानि सर्वाणि साधयित्वा तटागादितटे निविष्टो गालितजलेनाञ्जलिभिः स्नायात् । तथा येषु पुष्पादिषु संसत्तिः सम्भवति तानि परिहरेदिति सर्वत्र वक्तव्यामिति षष्टोऽपि प्रमादविरतेरतिचारः ॥ १२ ॥ अथ भोगोपभोगपरिमाणाख्यतृतीयगुणवतस्वीकरणविधिमाहभोगोऽयमियान् सेव्यः समयमियन्तं सदोपभोगोऽपि । इति परिमायानिच्छस्तावधिको तत्प्रमाव्रतं श्रयतु ॥ १३ ॥ टीका-श्रयतु स्वीकरोतु । कोऽसौ, गुणव्रती । किं तत्, तत्प्रमाव्रतं तयो. भौगोपभोगयोः प्रमा परिमाणं तत्प्रमा तत्प्रमैव व्रतं तत्र वा व्रतं तत्प्रमाव्रतं भोगोपभोगपरिमाणवतमित्यर्थः। किं कुर्वन् , अनिच्छन् अनाकांक्षन् । कौ, तो भोगोपभोगौ। किंविशिष्टौ, अधिकौ सेव्यासेव्यतया प्रतिज्ञाताभ्यामतिरिक्तौ। किं कृत्वा, परिमाय परिमितीकृत्य । कथमिति, किमिति भोग इत्यादि । अत्रैकं प्रतिषेधमुखेन वाक्यमन्यच्च विधिमुखेन । तत्राद्यं भोगोऽयं समयमियन्तं न सेव्यः इति । द्वितीयं भोगोऽयमियान्वा समयमियन्तं सेव्य इति । तत्राद्यं व्याख्यायते-न सेव्यो नोपयोक्तव्यः । कोऽसावयं भोग्यतया प्रसिद्धो भोगो माल्यताम्बूलादिः । केन, मया । कं, समयं कालं । कियन्तम्, इयन्तं एतावन्मानं यावजीवं दिवसमासादिपरिच्छिन्नं वा कालमित्यर्थः। द्वितीय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy