________________
पञ्चमोध्यायः ।
१३१
लस्य वातस्य व्याघातं स्वयमागच्छतः कवाटादिना प्रतिबन्धं विफलं नाचरेत् । अग्नेर्विध्यापं जलादिना विध्यापनं विफलं नाचरेत् । अम्बुनो जलस्य सेकं सेचनं भूम्यादौ प्रक्षेपं विफलं नाचरेत् । भूरुहां वनस्पतीनां छेदादि छेदनपत्रपुष्पफलत्रोटनादि विफलं नाचरेत् ॥ १० ॥
तद्वच्च न सरेद्वयर्थ न परं सारयेन्महीम् ।
जीवघ्नजीवान् स्वीकुर्यान्मार्जारशुनकादिकान् ॥ ११ ॥ टीका-न सरेत्करचरणादिव्यापार न कुर्यात् । किंविशिष्टं, व्यर्थं निष्प्रयोजनं । किंवत्, तद्वच्च क्षमाखननादिवदेवं तथा न सारयेत् करचरणादिव्या'पारं न कारयेत् । कं, परं भृत्यादिकं । कथं, व्यर्थं वृथा । न स्वीकुर्यात् न परिगृह्णीयात् । कान्, जीवनजीवान् प्राणिघातकप्राणिनः । किंविशिष्टान्, मारिशुनकादिकान् बिडालमण्डलनकुलकुकुटप्रभृतन् ि। कथं, नियमेन फलचतोऽपि नात्मसात्कुर्यादित्यर्थः ॥ ११ ॥ अनर्थदंडवतातिचारपरिहारमाहमुश्चेत्कन्दपकौत्कुच्यमौखर्याणि तदत्ययान् ।
असमीक्ष्याधिकरणं सेव्यार्थाधिकतामपि ।। १२ ॥ टीका-मुञ्चेद्वर्जयेदनर्थदण्डविरतः । कान्, तदत्ययान् तद्रतातिचारान् किंविशिष्टान्, कन्दर्पोदीन् पञ्च । तत्र कन्दर्पः कामस्तद्धेतुस्तत्प्रधानो वाक्प्र. योगोऽपि कन्दर्पो रागोद्रेकात्प्रहासमिश्रोऽशिष्टवाक्प्रयोग इत्यर्थः । कौत्कुच्यं कुदिति कुत्सायां निपातो निपातानामानन्त्यात् । कुतः, कुत्सितं कुचति भ्रनयनौष्टनासाकरचरणमुखविकारैः संकुचतीति कुत्कुचः सङ्कोचादिक्रियाभाक् तद्भावः कौत्कुच्यं । प्रहासो भण्डिमावचनं च भाण्डिमोपेतकायव्यापारप्रयुक्त. मित्यर्थः । एषः पूर्वश्च द्वावपि प्रमादचर्याविरतेरतिचारौ । मौखर्यं मुखमस्या. स्तीति मुखरोऽनालोचितभाषी वाचाटस्तस्य भावो धाष्टयप्रायमसत्यासंब. द्धबहुप्रलापित्वं । अयं च पापोपदेशविरतेरतीचारो मौखये सति पापोपदेशसम्भवादिति तृतीयः । असमीक्ष्याधिकरणं प्रयोजनमनालोच्य कार्यस्याधि. क्येन करणं । यथा बहुमपि कटमानयत,यावता मे प्रयोजन तावदहं ऋष्यामि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org