SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ सागारधर्मामृते चित्तकालुष्यकृत्कामहिंसाद्यर्थश्रुतश्रुतिम् ।। न दुःश्रुतिमपध्यानं नातरौद्रात्म चान्वियात् ॥ ९ ॥ टोका-नान्वियात् नानुवर्तयेत् प्रसङ्गवशादायातमपि तत्क्षणान्निवर्तयेदित्यर्थः । कोऽसौ, अनर्थदण्डव्रतार्थी । कां, दुःश्रुतिं । कीदृशी, चित्तेत्यादि। कामश्च मन्मथो हिंसा च प्राणातिपातः कामहिंसे ते आदी येषां आरम्भादीनां ते कामहिंसादयोऽर्थी अभिधेया येषां तानि कामहिंसाद्यर्थानि तानि श्रुतानि शास्त्राणि । तत्र कामशास्त्रं वात्स्यायनादि। हिंसाशास्त्रं लटकादिमतं । आरम्भपरिग्रहशास्त्रं वार्तानीतिः । साहसशास्त्रं वीरकथा। मिथ्यात्वशास्त्रं ब्रह्माद्वैतादि मतं । मदशास्त्रं वर्णानां ब्राह्मणो गुरुरित्यादिग्रन्थः । रागशास्त्रं वशीकरणादितन्त्रं । तेषां श्रुतिराकर्णनं उपलक्षणादर्जनाद्यपि । चित्तस्य मनसः कालुष्यं रागद्वेषाद्यावेशश्चित्तकालुष्यं तत्करोतीति चित्तकालुष्यकृत् । सा चासौ । कामहिंसाद्यर्थश्रुतश्रतिश्च ताम् । न चान्वियादसौ । किं तत्, अपध्यानं अपकृष्टं भ्यानमेकाग्रचिंतानिरोधं । किंरूपं, आर्तरौद्रात्म आर्त ऋते दुःखे भवं । यदि वा अर्तिः पीडा यातना च तत्र भवं । रौद्रं रोधयति अपरानिति रुद्रो दुःखहेतुस्तेन कृतं तस्य वा कर्म । आर्त च रौद्रं च आतरौद्रे ते आत्मानौ स्वभावौ यस्य तदातरौद्रात्म आर्तरौद्रविकल्पमित्यर्थः । न दुःश्रुतिमपध्यानमातरौद्रात्म चान्वियादिति पाठे तु-दुःश्रुति कामादिशास्त्रश्रवणलक्षणां, अपध्यानं च नरेन्द्रत्वखचरत्वाप्सरोविद्याधरीपरिभोगादिविषयं, आर्त वैरिघाताग्निघातादिविषयं, रौद्रं वा नान्वियादिति व्याख्येयम् ॥ ९ ॥ प्रमादचर्यालक्षणं तत्त्यागं च श्लोकद्वयेनाह प्रमादचर्या विफलक्ष्मानिलाग्न्यम्बुभूरुहाम् । खातव्याघातविध्यापसेकच्छेदादि नाचरेत् ॥ १० ॥ टीका-नाचरेत् न कुर्यादनर्थदण्डविरतः । कां, प्रमादचर्या । किंरूपां, विफलमित्यादि । विफलं निप्प्रयोजनं क्ष्मादीनां खातादिविफलभूखननादिलक्षणमित्यर्थः । तत्र क्ष्मायाः भूमेः खातं खननं विफलं नाचरेत् । अनि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy