________________
पञ्चमोध्यायः।
१२९ टीका-मतं सम्मतं सूरीणां । किं तत् , अनर्थदण्डवतं । किं तत् , तत्त्यागस्तस्यानर्थदण्डस्य वर्जनं । यः किं, योऽनर्थदण्डः । किं, पीडा पीडनं । केषां, अङ्गिनां सस्थावरजीवानां। कैः, पापोपदेशाद्यैः पापोपदेशहिंसादानदुःश्रुत्यपध्यानप्रमादचर्याख्यापारैः । कथं, विना । कस्मात्, देहाद्यर्थात् स्वस्य स्वकीयजनानां वा शरीरवाङ्मनःप्रयोजनात् ॥ ६ ॥ पापोपदेशस्वरूपं तद्विरतिं चाहपापोपदेशो यद्वाक्यं हिंसाकृष्यादिसंश्रयम् । तज्जीविभ्यो न तं दद्यान्नापि गोष्ठयां प्रसञ्जयेत् ॥ ७॥ टीका--भवति । कोऽसौ, स पापोपदेशः । यत्किं, यद्वाक्यं । किंविशिष्टं, हिंसाकृष्यादिसंश्रयं । हिंसा मृषावादादिभिः कृषिवाणिज्यादिभिश्च संश्रयः सम्बन्धो यस्य तत्तथोक्तं तद्विषयमित्यर्थः । हिंसाद्यारम्भेति पाठे तु हिंसादिप्रधाना आरम्भा उपक्रमा इति व्याख्येयं । न दद्यात् मगास्तोयाशयमायाताः किमुपविष्टास्तिष्ठतेत्यादिरूपेण न सम्पादयेत् । कोऽसौ,अनर्थदण्डव. तार्थी । कं, तं पापोपदेशं । केभ्यः, तजीविभ्यः व्याधवञ्चकचोरादिभ्यः कृषीवलकिरातादिभ्यश्च । नापि प्रसञ्जयेत् पुनःपुनः प्रवर्तयेत् कथान्तरसम्बन्धे वा नावतारयेत् । कं, तं । कस्यां, गोष्ठयां सङ्कथायाम् ॥ ७ ॥ हिंसोपकरणदानपरिहारमाह
हिंसादानं विषास्त्रादिहिंसाङस्पर्शनं त्यजेत् ।
पाकाद्यर्थं च नान्यादि दाक्षिण्याविषयेऽर्पयेत् ॥ ८ ।। टीका-त्यजेन्न कुर्यादनर्थदण्डव्रतार्थी । किं तत्, हिंसोपकरणानां दानं हिंसादानं । मयूरव्यंसकत्वात्समासः । तदेव व्याचष्टे विषास्त्रेत्यादिना विषा. स्वादीनां गरलप्रहरणहलशकटकुशिकुद्दालादीनां हिंसांगानां प्राणिवधसाधनानां स्पर्शनं दानं विषास्त्रादिहिंसाङ्गस्पर्शनं । न चार्पयेत् नापि ढौकयेदसौ। किं तत्, अग्न्यादि वन्हिघरट्टमुसलोलुखलादि । किमर्थं, पाकाद्यर्थ पचनपेषणकुट्टनादिनिमित्तं । क्व, दाक्षिण्याविषये परस्परव्यवहारविषयादन्यत्र ॥८॥ दुःश्रुत्यपध्यानयोः स्वरूपं परिहारं चाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org