________________
१२८
सागारधर्मामृते
प्रत्याख्यानावरणाख्यचारित्रमोहपरिणामे । कस्मात्, दिग्वतेत्यादि दिग्वतेनोदिक्तमुत्कर्ष नीतं व्रतध्नकषायाणां प्रत्याख्यानावरणाख्यद्रव्यक्रोधादीनामुदयस्य विपाकस्य मान्द्यमनौत्कट्यं यत्तस्मात् दिग्विरतिमन्दतरीकृतप्रत्याख्याना वरणविपाकादित्यर्थः ॥ ४ ॥ दिग्विरत्यतिचारानाह
सीमविस्मृतिरूधिस्तिर्यग्भागव्यतिक्रमाः ।
अज्ञानतः प्रमादाद्वा क्षेत्रवृद्धिश्च तन्मलाः ॥ ५ ॥ टीका-भवन्ति । के ते, तन्मला: दिग्नतातिचाराः । कति, पञ्च । कथं, सीमविस्मृतिरूव॑भागव्यतिक्रमोऽधोभागव्यतिक्रमस्तिर्यग्भागव्यतिक्रमः क्षेत्रवृद्धिश्चेति । कस्मात्, अज्ञानतः प्रमादादेति संक्षेपः । इतो विस्तर:-तत्र सीमविस्मृतिः-नियमितमर्यादाया अज्ञानतो मत्यपाटवसन्देहादिना प्रमादाद्वाऽतिव्याकुलत्वान्यमनस्कत्वादिना स्मृतिभ्रंशः । तथाहि-केनचित्पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत् । गमनकाले च स्पष्टतया न स्मरति किं शतं परिमाणं कृतमुत पञ्चाशत् तस्य चैवं पञ्चाशतमतिक्रामतोऽतिचारः। शतमतिक्रामतो भङ्गः सापेक्षत्वनिरपेक्षत्वाच्चेति प्रथमोऽतिचारः । ऊर्वेत्यादि ऊर्ध्वं गिरितरुशिखरादेः, अधो ग्रामभूमिगृहकूपादेः, तिर्यक्पूर्वादिदिक्षु येऽमी भागा नियामतप्रदेशास्तेषां व्यतिक्रमाः। लङ्घनानि । एते च त्रयोऽनाभोगातिक्रमादिभिरेवातिचारा भवन्ति । अन्यथा प्रवृत्तौ तु भङ्ग एव । क्षेत्रवृद्धिःक्षेत्रस्य पूर्वादिदेशस्य दिग्विरतिविषयस्य -हस्वस्य सतो वृद्धिः पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्धीकरणं । तथाहि-केनचित्पूर्वापरदिशोः प्रत्येक योजनर्शतं परिमाणीकृत्यैकत्र क्षेत्रं गमनकाले वर्द्धयतो व्रतसापेक्षत्वादतिचारः। यदि चाप्रणिधानात् क्षेत्रपरिमाणमतिक्रान्तं भवति तदा निवर्तितव्यं ज्ञाते वा न गन्तव्यमन्योऽपि न विसर्जनीयः । अथाज्ञतया कोऽपि गतः स्यात्तदा यत्तेन लब्धं तत्त्याज्यामिति पञ्चमः ॥ ५ ॥ अथानर्थदण्डव्रतं लक्षयति
पीडा पापोपदेशाद्यैदेहाद्यर्थाद्विनाऽगिनाम् । अनर्थदण्डस्तत्त्यागोऽनर्थदण्ड व्रतं मतम् ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org