________________
पञ्चमोध्यायः ।
१२७
यत्प्रसिद्धैरभिज्ञानैः कृत्वा दिक्षु दशस्वपि ।
नात्येत्यणुव्रती सीमा तत्स्यादिग्विरतिव्रतम् ॥ २ ॥ टीका-स्यात् । किं तत्। व्रतं गुणव्रतमित्यर्थः । नामैकदेशो हि व्रतशब्दो नाम्न्यपि वर्तते भीमादिवत् । किं नाम,दिग्विरतिः दिक्षु विरतिनियमितसीम्नो बहिर्यातायातनिवृत्तिः । यत्किं,यन्नात्येति नातिक्रम्य गच्छति । कोऽसौ,अणुव्रती न तु महाव्रती तस्य सर्वारम्भपरिग्रहविरतत्वेन समितिपरत्वेन च नृलोके यथाकामं सञ्चारादिग्विरत्यनुपपत्तेः । कां नात्येति, सीमां मर्यादा । किं कृत्वा, प्रतिपद्य । कां,सीमां। कासु, दिक्षु । कतिषु, दशसु । अपिशब्दादेकद्विव्यादिष्वपि यावजीवमल्पकालं चापि । कैः,अभिज्ञानैः समुद्रनद्यादिभिश्चिन्हैः। किंविशिष्टैः, प्रसिद्धः दिग्विरतिमर्यादाया दातुर्गृहीतुश्च प्रतीतैः ॥ २ ॥ दिग्नतेनाणुवतिनोऽपि महाव्रतित्वमुपपादयति
दिग्विरत्या बहिः सीम्नः सर्वपापनिवर्तनात् ।
तप्तायोगोलकल्पोऽपि जायते यतिवद्गृही ॥ ३ ॥ टीका-जायते भवति । गृही। किंवत्, यतिवत् महाव्रती यथा । कस्मात् सर्वपापनिवर्तनात् सर्वपापानि स्थूलेतरहिंसादीनि भोगोपभोगादीनि च तेभ्यो निवर्तनात् विरमणात् तेषां निवारणाद्वा । क, बहिः परतः । कस्याः, सीनः प्रतिपन्नमर्यादायाः । कया, दिग्विरत्या दिग्विरतिगुणव्रतेन । किंविशिष्टोऽपि गृही, तप्तायोगोलकल्पोऽपि सन्तप्तलोहपिंण्ड इव आरम्भपरिग्रहपरत्वेन सर्वत्र गमनभोजनशयनादिक्रियासु जीवोपमर्दकरत्वात् ॥ ३ ॥ एतदेव दृढयन्नाहदिग्व्रतोद्रिक्तवृत्तघ्नकषायोदयमान्यतः ।
महाव्रतायतेऽलक्ष्यमोहे गेहिन्यणुव्रतम् ॥ ४ ॥ टीका-महाव्रतायते महाव्रतमिवाचरति नियमितदिग्विभागाद्वहिः सर्व सावद्यनिवर्तकत्वात् । न तु महाव्रतं भवति तत्प्रतिबन्धकोदयसद्भावात् । किं तत्, अणुव्रतं । क्व, गेहिनि गृहस्थे। किंविशिष्टे,अलक्ष्यमोहे निश्चेतुमशक्यभावे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org