________________
१२६
सागारधर्मामृते
MAHARArAnnonrnAmARAN
Anamniwwwwwww
तान्तकल्पसम्बन्धिनीः । किंविशिष्टाः सन्तः, सन्न्यासेत्यादि सन्न्यासविधिना सप्तदशाध्यायोक्तेन प्रकर्षण सकलसवसमक्षतालक्षणेन मुक्ता त्यक्ता तनुः शरीरं यैस्ते यथोक्ताः । सति साधने निस्तरणभणितिरियं । ये के, ये पालयन्ति । किं तत्, इदमनन्तराध्याये वक्ष्यमाणं । निर्मलशीलसप्तकं। कस्मात्, आदरात् तत्परतया । किं कर्नु, त्रातुं पालयितुं । निर्वहणार्थमिदं । कानि, अणुव्रतानि । कति, पञ्च अपिशब्दादेकं द्वे त्रीणि चत्वारि वा । कथं, एवं उक्तप्रकारेण । किंविशिष्टानि सन्ति, अर्पितानि परिणमितानि । क्व, आत्मनि अन्तस्तत्वे । उद्यपनप्रकाशनेयं । किंविशिष्टे, समतापीयूषपात्रोन्मुखे साम्यामृतपानाद्यभिमुखे । किं कृत्वा, अमलीकृत्य तत्तदतीचारेभ्यः प्रच्याव्य । उद्द्योतनोक्तिरियं । काभिः, सामान्येतरभावनाभिः सामान्यभावनाभिमैंत्र्यादिभिर्विशेषभावनाभिः प्रतिव्रतं पञ्चशो नियमिताभिमहाव्रताधिकारोक्ताभिरिति भद्रम् ॥ ६६ ॥ इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतसागारधर्मदीपिकायां
भव्यकुमुदचन्द्रिकासज्ञायामादितस्त्रयोदशः प्रक्रमाञ्च चतुर्थोऽध्यायः समाप्तः ॥ ४ ॥
अथ पञ्चमोऽध्यायः अथ शीलसप्तकं व्याकर्तुकामस्ताविकल्पभूतानि गुणव्रतानि तावल्लक्षयति
यद्गुणायोपकारायाणुव्रतानां व्रतानि तत् ।
गुणव्रतानि त्रीण्याहुर्दिग्विरत्यादिकान्यपि ॥ १ ॥ टीका--तत्तस्मादाहुर्बुवन्ति । स्वामिमतानुसारिणः । कानि, गुणव्रतानि । कति, त्रीणि । तानि, दिग्विरत्यादिकानि दिग्विरतिमनर्थदण्डविरतिं भोगोपभोगपरिमाणं । अपिशब्दः सितपटोक्तखरकर्मज्ञापनार्थः । यद्यस्मात् भवन्त्यमूनि व्रतानि । कस्मै, गुणाय । कोऽर्थः, उपकाराय । केषाम् , अणुव्रतानाम् ॥१॥ किं तद्दिव्रतमित्याह--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org