________________
चतुर्थोध्यायः ।
१२३ वास्तुक्षेत्रे योगाद्धनधान्ये बन्धनात्कनकरूप्ये।
दानात्कुप्ये भावान गवादौ गर्भतो मितिमतीयात् ॥६४। टीका-नातीयान्नातिक्रमेत् । कोऽसौ, परिग्रहपरिमाणाणुव्रती। कां, मिति व्रतविषयीकृतं परिमाणं । क्व, वास्तुक्षेत्रे वास्तुनि च क्षेत्रे च । कस्मात् योगात् वास्त्वन्तरसंयोजनं क्षेत्रान्तरसंयोजनं चाश्रित्य । तथा धनधान्ये धने च धान्ये च न मितिमतीयात् । कस्मात्, बन्धनात् बन्धनं रज्ज्वादिनियन्त्रणं सत्यङ्कारदानादि चाश्रित्य । तथा कनकरूप्ये सुवर्णे च रूप्ये च न मितिमतीयात् । कस्मात् , दानात् दानमाश्रित्य । तथा कुप्ये सुवर्णरूप्याभ्यामन्यत्र कांस्यरथादिद्रव्ये न मितिमतीयात् । कस्मात्, भावात् भावं परिमाणान्तरं अभिप्राय वाऽऽश्रित्य । तथा गवादौ गोमहिषीवडवादिचतुष्पदपत्तिशुकादिद्विपदवर्गे न मितिमतीयात् । कस्मात, गर्भतो गर्भमाश्रित्यति समन्वयः॥
इतस्तदर्थो विस्तरतः कथ्यते-तत्र वास्तु गृहादि ग्रामनगरादि च । तत्र गृहादि त्रेधा खातोच्छ्रिततदुभयभेदात् । तंत्र खातं भूमिगृहादिकं, उच्छ्रितं प्रासादादिकं, खातोच्छ्रितं च भूमिगृहोपरिगृहादिसन्निवेशः । क्षेत्रं सस्योत्प. त्तिभूमिः। तत् त्रेधा सेतुकेतूभयभेदात् । तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते । केतुक्षेत्रं आकाशोदकपातानिष्पाद्यसस्यं । उभयमुभयजलनिष्पाद्य. सस्यं । वास्तु च क्षेत्रं च वास्तुक्षेत्रमिति समाहारनिर्देशोऽत्रोत्तरत्र च बाह्यग्रन्थस्य पञ्चविधत्वकल्पनयाऽतीचारपञ्चकस्य सुखप्रयोजनार्थ । तत्र वास्तुक्षेत्रे योगाद्भित्तिवृत्याद्यपनयेन वास्तुक्षेत्रान्तरमीलनान्तरमाश्रित्य परिमितपरिग्रहः श्रावको न मितिमतीयात् देवगुरुसाक्षिकव्रतग्रहणकाले यावजीवं चतुर्मासादिकालावधि वा प्रतिपन्ना संख्यां नातिक्रमेत् । वास्त्वादिकमेव मया विपुलीक्रियते न प्रतिपन्नां तत्संख्याऽतिक्रम्यत इति बुध्द्या तद्विषयं वा हस्तादिपरिमाणं सहसाकारादिना नातिक्रमेत् । अन्यथा वास्तुक्षेत्रप्रमाणाति. क्रमो नाम प्रथमोऽतिचारःस्यात् । व्रतसापेक्षस्यैव स्वबुध्द्या व्रतभङ्गमकुर्वतोऽ तिचारत्वव्यवस्थापनात् ॥१॥
धनं गणिमादिभेदात् चतुर्विधं । तत्र गणिमं पूगफलजातिफलादि । धरिमं कुंकुमकर्पूरादि । मेयं स्नेहलवणादि । परीक्ष्यं रत्नवस्त्रादि । धान्यं ब्रीह्या.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org