________________
१२२
सागारधर्मामृते
कथं, शनैः मनाक् समयपरिपाट्या कालक्रमेण परिग्रहसज्ञाया अनादिसन्तत्या प्रवर्तमानत्वेन सहसा तत्त्यागस्य कर्तुमशक्यत्वात् कृतस्यापि तद्वासनावशाद्भङ्गसम्भावनाच्चैतदुच्यते ॥ ६१ ॥
एतदेव प्रपञ्चयन्नाहदेशसमयात्मजात्याद्यपेक्षयेच्छां नियम्य परिमायात् । वास्त्वादिकमामरणात्परिमितमपि शक्तितः पुनः कृशयेत्॥६२॥
टीका--परिमायात् परिमितं कुर्यात् । किं तत्, वास्त्वादिकं वास्तुक्षेधनधान्यद्विपदचतुष्पदशयनासनयानकुप्यभाण्डलक्षणं दशभेदं बाह्यग्रन्थं । किं कृत्वा, नियम्य सन्तोषभावनया निगृह्य । कां, इच्छां परिग्रहे तृष्णां । कया, देशेत्यादि देशो वास्यमानो जनपदः, समयः कालः, आत्मा स्वात्मा, जातिः वणिक्त्वादिः, देशश्च संयमश्च आत्मा च जातिश्च ता: आदयो येषां स्वान्वयवयःपदव्यादीनां ते देशादयस्तेषामपेक्षया तानाश्रित्येत्यर्थः । कर्थ परिमायात्, आमरणात् मरणावधि यावज्जीवमित्यर्थः । तथा कृशयेच्छ्रावकः। किं तत्परिमितमपि वास्त्वादिकं । कथं पुनः । कस्मात्, शक्तितः नैस्सङ्गयभावनया समुत्पन्नां स्वशक्तिमपेक्ष्येत्यर्थः ॥ ६२ ॥ परिग्रहं वक्रमणित्या दूषयन्नाह
अविश्वासतमोनक्तं लोभानलघृताहुतिः।
आरम्भमकराम्भोधिरहो श्रेयः परिग्रहः ॥६३ ॥ टीका-अहो आश्चर्य । श्रेयः सेव्यः पुंसां कल्याणं वा । कोऽसौ, परिग्रहः। किंविशिष्टः, अविश्वासतमोनक्तं अविश्वास एव तमो ध्वान्तं दुःखहेतुत्वात् तत्र नक्तं रात्रिस्तद्धेतुत्वादिति अविश्वासतमोनक्तं। तथा लोभ एवानलोऽग्निश्चित्तसन्तापकत्वात् तत्र घृताहुतिः सर्पिःप्रक्षेपः प्रदीपकत्वादिति लोभानलघृताहुतिः । तथा आरम्भमकराम्भोधिः आरम्भाः कृष्यादयस्त एव मकरास्वासातङ्कनिमित्तत्वात् तत्र अम्भोधिः समुद्रः उत्पत्तिनित्यप्रवृत्तिनिमित्तत्वादित्यारम्भमकराम्भोधिः ॥ ६३ ॥
पञ्चमाणुव्रतातिचारपञ्चकनिषेधविधिमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org