________________
चतुर्थोध्यायः । मचितां चिदचितां च वस्तूनां । कस्मात्, तत्कर्शनात् यथोक्तमूर्छालक्षणपरि. ग्रहाल्पीकरणात् ॥ ५९॥ अन्तरङ्गसङ्गनिग्रहोपायमाह--
उद्यत्क्रोधादिहास्यादिषट्कवेदत्रयात्मकम् ।
अन्तरङ्ग जयेत्सङ्ग प्रत्यनीकप्रयोगतः ॥ ६०॥ टीका--जयेत् निगृह्णीयात् । कोऽसौ, पञ्चमाणुव्रतार्थी । कं, सङ्गं ग्रन्थं । किंविशिष्टं, अन्तरङ्गं आध्यात्मिकं । किमात्मकं, उद्यदित्यादि उद्यन्ति उच्चलन्ति विपच्यमानानि, उदितानां दुर्जयत्वात् , क्रोधादयोऽनन्तानुबन्ध्यप्रत्याख्यानावरणवर्जिताः, तान्मिथ्यात्वसहितानिगृह्मैव देशसंयमस्य प्रवृत्तत्वात् अष्टौ प्रत्याख्यानावरणसंज्वलनाख्या इह गृह्यन्ते, हास्यादिषट्कं हास्यरत्यरतिशोकभयजुगुप्साः, वेदाः स्त्रीपुन्नपुंसकवेदा रागाख्यास्तेषां त्रयं वेदत्रयं, क्रोधादयश्च हास्यादिषटकं च वेदत्रयं च क्रोधादिहात्यादिषटकवेदत्रयाणि, उद्यन्ति च तानि क्रोधादिहास्यादिषट्कवेदत्रयाणि च तान्येव आत्मा स्वरूपं यस्यासौ तदात्मकस्तं । केन •जयेत् , प्रत्यनीकप्रयोगतः यथास्वमुत्तमक्षमादिभावनया ॥ ६ ॥ बहिरङ्गसङ्गत्यागविधिमाह--
अयोग्यासंयमस्याङ्गं सङ्गं बाह्यमपि त्यजेत् । मुङ्गित्वादपि त्यक्तुमशक्यं कृशयेच्छनैः ॥६१॥ टीका--त्यजेत् । कोऽसौ, पञ्चमाणुव्रती । कं, सङ्गं । किंविशिष्टं, बाह्यं वस्तुक्षेत्रादिकं । अन्तरङ्गसङ्गत्यागापेक्षयाऽपिशब्दः समुच्चये । किंविशिष्टम्, अङ्गं साधनं । कस्य, अयोग्यासंयमस्य अयोग्यः श्रावकस्य कर्तुमनुचितोऽ संयमः स चेहानारम्भजस्त्रसवधो व्यर्थः स्थावरवधः परदारगमनादिश्व, अयोग्यश्चासावसंयमश्चायोग्यासंयमस्तस्य । कुतो हेतोः, मूर्छाङ्गत्वात् मोहोदयनिमित्तत्वात् । यस्त्वसौ त्यक्तुमशक्यस्तत्त्यागविधिमाह-कृशयेत् स्वल्पीकुर्यात् । कं, तं बाह्यसङ्गं । किंविशिष्टमपि, त्यक्तुमशक्यमपि अशक्यवर्जनमपि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org