________________
१२०
सागारधर्मामृते
अनङ्गकीडा अङ्गं साधनं देहावयवो वा तच्चेह मैथुनापेक्षया योनिर्मेहनं च ततोऽन्यत मुखादिप्रदेशे रतिः। यतश्च चर्मादिमौलिङ्गैः स्वलिङ्गेन कृतार्थोऽपि स्त्रीणामवाच्यदेशं पुनः पुनः कुद्राति । केशाकर्षणादिना वा क्रीडन् प्रबलरागमुत्पादयति साऽप्यनङ्गक्रीडोच्यते । इह च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तत्कर्तुं न शक्नोति तदा यापनामात्रार्थ स्वदारसन्तोषादि प्रतिपद्यते । मैथुनमात्रेण च यापनायां सम्भ. वत्यां विटत्वादित्रयमर्थतः प्रतिषिद्धमेव । तत्प्रयोगे हि न कश्चिद्गुणः । प्रत्युत सद्योऽतिरागोद्दीपनं बलक्षयस्तात्कालिकी च्छिदा राजयक्ष्मादिरोगाश्च स्युः। तदुक्तं-ऐदम्पर्यमतो मुक्त्वा भोगानाहारवगजेत् ॥ देहदाहोपशान्त्यर्थमभिध्यानविहानये ॥ १ ॥ एवं प्रतिषिद्धाचरणाद्भङ्गो नियमाबाधनाचाभङ्ग इत्येतेऽपि विटत्वादयस्त्रयोऽतिचाराः । यद्वा स्वदारसन्तोषी मैथुनमेव मया वेश्यादौ प्रत्याख्यातमिति स्वकल्पनया तत्र तदेव वर्जयति न विटत्वादिकं । परदारविवर्जकोऽपि परदारेषु मैथुनमेव वर्जयति नाशिष्टवाक्प्रयोगालिङ्गनादीनीति तयोः कथञ्चिद्वतसापेक्षत्वाद्विटत्वादयोऽतिचाराः । स्त्रियास्तु पूर्ववत्परविवाहकरणादयः । प्रथमस्तु यदा स्वकीयपतिर्वारकदिने सपत्न्या परिगृहीतो भवति तदा सपत्नीवारकं विलुप्य तं परिभुजानाथा अतिचारोऽ तिक्रमादिना च परपुरुषं (इव) स्वपति वा ब्रह्मचारिणमभिसरत्याः स्यात् ।। ५८ ॥
अथ परिग्रहपरिमाणाणुव्रतं व्याचष्टे
ममेदमिति सङ्कल्पश्चिदचिन्मिश्रवस्तुषु ।
ग्रन्थस्तत्कर्शनात्तेषां कर्शनं तत्पमावतम् ।। ५९ ॥ - टीका--भवति । कोऽसौ, ग्रन्थः परिग्रहः । किंलक्षणो, ममेदमिति सङ्कल्पः इदं चेतनमचेतनं मिश्रं वा वस्तु मम सम्बन्धि मदीयं मत्स्वामिकमिति सङ्कल्पो मानसोऽध्यवसायो ममत्वपरिणामो मूछेति यावत् । केषु, चिद्वस्तुषु कलत्रपुत्रादिषु, आचद्वस्तुषु गृहसुवर्णादिषु । मिश्रवस्तुषु चेतनाचेतनेषु । बहिः पुष्पवाटिकादिषु । अन्ततश्च मिथ्यात्वादिषु । भवति । किं तत्, तत्प्रमावतं परिग्रहपरिमाणाख्यमणुव्रतं । किं कर्शनमल्पीकरणं । केषां, तेषां चिता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org