________________
चतुर्थोध्यायः।
११९
भंगरूपत्वादित्वरिकाया वेश्यात्वेनान्यस्यास्त्वनाथतयैव परदारत्वात् । किं चास्य भाव्यादिना परेण किञ्चित्कालं परिगृहीतां वेश्यां गच्छतो भंगः कथञ्चित्परदारत्वात्तस्याः । लोके तु परदारत्वारूढेर्न भंग इति भंगाभंगरूपोऽ तिचारः । अन्ये त्वपरिगृहीतकुलांगनामप्यन्यदारवर्जिनोऽतिचारमाहुः । तत्कल्पनया परस्य भर्तुरभावेनापरदारत्वादभङ्गो लोके च परदारतया रूढे. भंग इति भङ्गाभङ्गरूपत्वात्तस्य । एतेनेत्वरिकापरिगृहीतापरिगृहीतागमनलक्षणमतिचारद्वयं तत्वार्थशास्त्रोद्दिष्टमपि संगृहीतं भवति । परविवाहकरणादयस्तु चत्वारो द्वयोरपि स्फुरन्तीति प्रथमोऽतिचारः ॥ १॥ _परविवाहकरणं-स्थापत्यव्यतिरिक्तानां कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिणयनविधानं । एतच्च स्वदारसन्तोषवता स्वकलत्रेतरदारवर्जन च स्वकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कार्य न च कारणीयमिति व्रतं यदा गृहीतं भवति तदाऽन्यविवाहकरणं मैथुनकरणमित्यर्थतः प्रतिषिद्धमेव च भवति । तद्रती तु मन्यते विवाह एवायं मया क्रियते न मैथुनं कार्यत इति व्रतसापेक्षत्वादतिचारः । कन्याफललिप्सा च सम्यग्दृष्टेरप्युत्पजावस्थायां सम्भवति । मिथ्यादृष्टेस्तु भद्रकावस्थायामनुग्रहार्थं व्रतादाने सा सम्भवति । ननु परविवाहूनवत् स्वापत्यविवाहनेऽपि समान एव दोष इति चेत् सत्यं । किं तर्हि यदि स्वकन्याविवाहो न कार्यते तदा स्वच्छन्दचारिणी स्यात् । ततश्च कुलसमयलोकविरोधः स्यात् । विहितविवाहात्तु पतिनियतस्त्रीत्वेन न तथा स्यात् । एष न्यायः पुत्रेऽपि विकल्पनीयः । यदि पुनः कुटुम्बचिन्ताकारकः कोऽपि स्वभ्रात्रादिर्भवेत्तदा स्वापत्यविवाहनेऽपि नियम एव श्रेयान् । यदा तु स्वदारसन्तुष्टो विशिष्टसन्तोषाभावात् अन्यत्कलत्रं परिणयति तदाऽप्यस्यायमतिचारः स्यात् । परस्य कलत्रान्तरस्य विवाहकरणमात्मना विवाहनमिति व्याख्यानादिति द्वितीयोऽतिचारः ॥ २ ॥
विटत्वं भण्डिमा तत्प्रधानवाक्प्रयोगः ॥ ३ ॥ स्मरतीब्राभिनिवेशः-कामे. तिमात्रमाग्रहः। परित्यक्तान्यसकलव्यापारस्य तब्यवसायितेत्यर्थः । यथा मुखकक्षोपस्थान्तरेष्ववितृप्ततया लिङ्गं प्रक्षिप्य महती वेलां निश्चलो मृत इवास्ते । चटक इव चटकां मुहुर्मुहुः स्त्रियमारोहति । जातबलक्षयश्च वाजीकरणान्युपयुङ्क्ते । अनेन खल्वौषधादिप्रयोगेण गजप्रसेकी तुरगावमर्दी च पुरुषो भव तीति बुध्द्या इति चतुर्थः ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org