SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सागारधर्मामृते ११८. टीका -- यो नेच्छेत् नाभिलषेत् । काः, स्त्रियः नारीः । किंविशिष्टाः, अन्याः स्वस्त्रीतो व्यतिरिक्ताः । किंविशिष्टः सन् सन्तुष्टः सन्तोषं गतः । केन, स्वस्त्रीमात्रेण निजनार्यैव । स्यात् । कोऽसौ सोऽपि स्वदारसन्तुष्टोऽपि । किंविशिष्टः, अभ्दुतप्रभावो लोकविस्मयनीयमाहात्म्यः । किं वर्ण्य । किं माहात्म्यं स्तुत्यं । कस्य, वर्णिनः सर्वस्वीनिवृत्तस्य । कथं, पुनः प्राग्वर्णितप्रायत्वादित्यर्थः ॥ ५६ ॥ इदानीं स्वभर्तृमात्रसेवनव्रतायाः स्त्रिया बहुमान्यतां दृष्टान्तेन स्पष्टयतिरूपैश्वर्य कलावर्यमपि सीतेव रावणम् । परपुरुषमुज्झन्ती स्त्री सुरैरपि पूज्यते ॥ ५७ ॥ I टीका -- पूज्यते सत्क्रियते । काऽसौ, स्त्री । कैः, सुरैर्देवैः किं पुनर्मनुष्यादिभिरित्यपिशब्दार्थः । किं कुर्वती, उज्झन्ती व्रतयन्ती । कं, परपुरुषं स्वभ र्तुरन्यं पूरुषं । अत्र हेतौ शतृङ्, परपुरुषोज्झनेन सुरपूजाया जन्यत्वात् - किंविशिष्टमपि रूपेत्यादि -- रूपमाकारसौन्दर्यं ऐश्वयं पूजार्थाज्ञाधिपत्यं कला गीतनृत्यादिकाः । रूपं चैश्वर्यं च कलाश्च ताभिर्वर्यमुत्कृष्टमसाधारणरूपा-दिमन्तमित्यर्थः । अपिर्विस्मये । केव कमित्याह- सीतेव रावणं जानकी. यथा लंकेश्वरम् ॥ ५७ ॥ ब्रह्माणुव्रतातिचारानाह- इत्वरिकागमनं परविवाहकरणं विटत्वमतिचाराः । स्मरतीव्राभिनिवेशोऽनङ्गक्रीडा च पञ्च तुर्ययमे ॥ ५८ ॥ टीका --- इत्वरिकागमनादयः पञ्चातिचारास्तुर्ययमे सार्वकालिकब्रह्मचर्या - ते भवन्तीति सम्बन्धः । तत्रेत्वरिकागमनं अस्वामिका असती गणिकात्वेन पुंश्चलित्वेन वा पुरुषानेति गच्छतीत्येवंशीला इत्वरी । तथा प्रतिपुरुषमेतीत्येवंशीलेति व्युत्पत्त्या वेश्यापीत्वरी । ततः कुत्सायां के इत्वरिका तस्यां गमनमा सेवनं । इयं चात्र भावना - भाटिप्रदानान्नियतकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां वेत्वरिकां सेवमानस्य स्वबुद्धिकल्पनया स्वदारत्वेन व्रतसापे. क्षचित्तत्वादल्पकालपरिग्रहाच्च न भंगो वस्तुतोऽस्वदारत्वाच्च भंग इति भंगा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy