________________
चतुर्थोध्यायः।
११७ परदाररतौ सुखाभावमुपदिशतिसमरसरसरङ्गोद्गममृते च काचित्क्रिया न निवृतये । स कुतः स्यादनवस्थितचित्ततया गच्छतः परकलत्रम्॥५४॥ टीका-न च भवति । काऽसौ, क्रिया प्रवृत्तिः । किंविशिष्टा, काचित् आलिंगनचुम्बनादिका । कस्यै, निवृतये सुखार्थं । कथं, ऋते विना । कं, समरसरसरंगोद्गमं । समसमायोगं समानरतिमित्यर्थः । कुतः, स्यान्न कुतश्चि. गवेदित्यर्थः । कोऽसौ, समरसरसरंगोद्गमः । कस्य, पुंसः । किं कुर्वतो, गच्छतः सेवमानस्य । किं तत्, परकलत्रं । कया, अनवस्थितचित्ततया स्वपरजनशंकातंकाकुलितमनस्कतया ॥ ५४ ॥ स्वदाररतस्यापि भावतो द्रव्यतश्च हिंसासम्भवं नियमयति-- स्त्रियं भजन भजत्येव रागद्वेषौ हिनस्ति च । योनिजन्तून् बहून् सूक्ष्मान् हिंस्रः स्वस्त्रीरतोऽप्यतः॥५५॥ टीका-भवति । कोऽसौ, नरः। किंविशिष्टः, हिंस्रः । भावव्याभ्यां हिंसनशीलः । किंविशिष्टोऽपि, स्वस्त्रीरतोऽपि स्वस्त्रियां रतं मैथुनं यस्य सोऽपि विशेषतस्तु परस्त्रीरतः । तत्र रागद्वेषयोबहुतरत्वसम्भवात् । कस्मादत एतस्मात्कारणात् । यतो भजत्येव अवश्यमाश्रयति । कोऽसौ, स्त्रियं भजन स्त्रियं सेवमानः पुमान् । कौ, रागद्वेषौ प्रीत्यप्रीती। तथा हिनस्ति हन्ति । कान्, योनिजन्तून् भगजीवान् । किंविशिष्टान् , सूक्ष्मान् दुर्लक्ष्यान् । कति, बहुन् प्रचुरान् । वात्स्यायनोऽपि योनौ जन्तूनिच्छति तथा च तद्ग्रन्थ:" रक्तजाः कृमयः सूक्ष्मा मृदुमध्यादिशक्तयः । जन्मवर्त्मसु कण्डूतिं जनयन्ति तथाविधाम्" ॥ ५५ ॥ ब्रह्मचर्यमहिमानमभिष्टौति-- स्वस्त्रीमात्रेऽपि सन्तुष्टो नेच्छेद्योऽन्याः स्त्रियः सदा । सोऽप्यद्भुतप्रभावः स्यात् किं वयं वर्णिनः पुनः ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org