________________
सागारधर्मामृते
min
marrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrrr.
गुणान् प्रतिपन्नवतो विशुद्धसम्यग्दृशः श्रावकस्योपदिश्यते । यस्तु स्वदारव साधारणस्त्रियोऽपि व्रतयितुमशक्तः परदारानेव वर्जयति सोऽपि ब्रह्माणुव्रतीप्यते । द्विविधं हि तद्गतं । स्वदारसन्तोषः परदारवर्जनं चेति । एतच्चान्यस्त्रीप्रकटस्त्रियाविति स्त्रीद्वयसेवाप्रतिषेधोपदेशाल्लभ्यते । तत्राद्यमभ्यस्तदेशसंयमस्य नैष्टिकस्येष्यते । द्वितीयं तु तदभ्यासोन्मुखस्य । तदाह श्रीसोमदेवपण्डितःवधूवित्तस्त्रियो मुक्त्वा सर्वत्रान्यत्र तज्जने । माता स्वसा तनूजेति मतिब्रह्म गृहाश्रमे । यस्तु-पंचुंबरसहियाइं सत्त वि वसणाइ जो विवजेइ । सम्मत्तविसुद्धमई सो दसणसावओ भणिओ ॥ इति वसुनन्दिसैद्धान्तिमतेन दर्शनप्रतिमायां प्रतिपन्नस्तस्येदं ॥ तन्मतेनैव व्रतप्रतिमां बिभ्रतो ब्रह्माणुव्रतं स्यात् तद्यथा-पव्वेसु इथिसेवा अणंगकीडा सया विवजेइ ॥ थूळअड वंभयारी जिणेहिं भणिदो पवयणम्मि ॥ यस्तु “सम्यग्दर्शनशुद्धः संसारशरीरभोगनिविण्णः। पञ्चगुरुचरणशरणो दर्शनिकस्तत्त्वपथगृह्य इति” । स्वामिमतेन दर्शनिको भवेत्तस्येदं ब्रह्माणुव्रतमतिचारवर्जनार्थमेवानानूद्यते ॥ ५२ ॥ ___ अथ यद्यपि गृहस्थस्य प्रतिपन्नं व्रतमनुपालयतो न तादृशः पापबन्धोऽस्ति तथापि यतिधर्मानुरक्तत्वेन तत्प्राप्तेः प्राग्गार्हस्थ्येऽपि कामभोगविरक्तः सन् श्रावकधर्म प्रतिपालयति तं वैराग्यकाष्टामुपनेतुं सामान्येनाब्रह्मदोषानाह
सन्तापरूपो मोहाङ्गसादतृष्णानुबन्धकृत् ।
स्त्रीसम्भोगस्तथाऽप्येष सुखं चेत्का ज्वरेऽक्षमा ॥५३॥ टीका--भवति । कोऽसौ, स्त्रीसम्भोगः । कीदृशः, सन्तापरूपः स्त्रीसम्पकस्य पित्तप्रकोपहेतुत्वात्सन्तापयतीति सन्तापः सन्तापकरं रूपं यस्य स सन्तापरूपः ज्वरपक्षे तु सन्तपनं सन्तापः संज्वरः स एव रूपमस्येति विग्रहः। तथा चोक्तं सन्तापात्कोपजो ज्वर इति । पुनः कीदृशः, मोहेत्यादि-मोहो हिताहितविवेकविकलत्वं, अंगसादः शरीरनिःसहत्वं तृष्णानुबन्धः तर्षाविच्छेदः पक्षे पिपासासातत्यं मोहश्चांगसादश्च तृष्णानुबन्धश्च मोहांगसादतृष्णानुबंधास्तान् करोति । यद्यप्येवंविध एष तथाऽपि सुखं चेत् मन्यसे भो आत्मन् तदा न काऽपि त्वया कार्या । काऽसौ, अक्षमा । क, ज्वरे ज्वरोऽपि सुखं मन्तव्य इति भावः । तथा चोक्तमार्ष-स्त्रीभोगो न सुखं चेतस्सम्मोहागात्रसादनात् । तृष्णानुबन्धात्सन्तापरूपत्वाच्च यथा ज्वरः ॥ ५३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org