________________
चतुर्थोध्यायः।
११५ अथ स्वदारसन्तोषाणुव्रतस्वीकारविधिमाह
प्रतिपक्षभावनैव न रती रिरंसारुजि प्रतीकारः।
इत्यप्रत्ययितमनाः श्रयत्वहिंस्रः स्वदारसन्तोषम् ॥५१॥ टीका-श्रयतु स्वीकरोतु । कोऽसौ, अहिंस्रः ईषद्विसनशीलोऽणुवती । कं, स्वदारसन्तोषं स्वदारेषु स्वभार्यायां स्वदारैर्वा सन्तोषो मैथुनसज्ञावेदनाशान्त्या देहमनसोः स्वास्थ्यापादनं । किंविशिष्टः सन्, अप्रत्ययितमनाः प्रत्ययो विश्वासः प्रत्ययः सजातोऽस्येति प्रत्ययितं न प्रत्ययितमप्रत्ययितं मनो यस्यासावप्रत्ययितमना असञ्जातविश्वासचित्त इत्यर्थः । कथं, इति अनेन सदुपदेशप्रकारेण। तमेव दर्शयति-भवति । कोऽसौ, प्रतीकारः प्रशमनोपायः । कस्यां रिरंसारुजि योन्यादौ रन्तुमिच्छारूपायां वेदनायां । किं प्रतीकारः, प्रतिपक्षभावनैव ब्रह्मचर्यस्य प्रागुक्तविधिना पुनश्चेतसि सन्निवेशनमेव । न पुनर्भवति तत्र प्रतीकारः । किं, रतिः स्त्रीसम्भोगः ॥ ५१ ॥ स्वदारसन्तोषिणं व्याचष्टे
सोऽस्ति स्वदारसन्तोषी योऽन्यस्त्रीप्रकटस्त्रियौ।
न गच्छत्यंहसो भीत्या नान्यैर्गमयति त्रिधा ॥ ५२ ॥ टीका-अस्ति भवति । कोऽसौ, स गृहाश्रमी । कीदृशः, स्वदारसन्तोषी स्वदारेषु निजधर्मपत्न्यां सन्तुष्यति मैथुनसज्ञा प्रतिचिकीर्ष यन् भजतीत्येवं. व्रतः । स्वदारेषु सन्तोषोऽस्यास्तीति वा । यः किं, यः न गच्छति न भजति । के, अन्यस्त्रीप्रकटस्त्रियौ अन्यस्त्री परदाराः परिगृहीता अपरिगृहीताश्च । तत्र परिगृहीताः सस्वामिका अपरिगृहीता स्वैरिणी प्रोषितभर्तृका कुलाङ्गना वा अनाथा। कन्या तु भाविभर्तृकत्वात्पित्रादिपरतन्त्रत्वाद्वा सनाथेत्यन्यस्त्रीतो . न विशिष्यते । प्रकटस्त्री वेश्या । अन्यस्त्री च प्रकटस्त्री च अन्यस्त्रीप्रकटस्त्रियो। ते द्वे अपि यो न भजति । कया, भीत्या भयेन । कस्मात्, अंहसः पापात् न राजादेः । नापि यो गमयति उपभोजयति । के, ते द्वे । कैः कर्तृभिः, अन्यैः परदारादिलम्पटैः । कथं, त्रिधा मनोवाकायैः कृतकारिताभ्यामनुमत्याऽपि वा । तदेतद्ब्रह्माणुव्रतं निरतिचारं मद्यामिपक्षौद्रपञ्चोदुम्बरविरंतिलक्षणाष्टमूल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org