________________
११४
सागारधर्मामृते
उन्मानं । मानं च तुला च मानतुलं, अधिकं च हीनं चाधिकहीनं तच्च तन्मानतुलं च, अधिकमाने हीनमानं, अधिकतुला हीनतुला चेत्यर्थः । तत्र न्यूनेन मानादिनाऽन्यस्मै ददाति, अधिकेनात्मनो गृह्णातीत्येवमादिकूटप्रयोगो हीनाधिकमानोन्मानमित्यर्थः ॥ प्रतिरूपकव्यवहृतिः - प्रतिरूपकं सदृशं ब्रीहीणां पलंजि, घृतस्य वसा, हिङ्गोः खदिरादि वेष्टस्तैलस्य मूत्रं, जात्य सुवर्णरूप्य योयुक्तसुवर्णरूपये, इत्यादिप्रतिरूपकेण व्यवहृतिर्व्यवहारो ब्रीह्यादिषु पलंज्यादि प्रक्षिप्य तद्विक्रयणं । एतत् द्वयं परधनग्रहणरूपत्वाद्भङ्ग एव । केवलं खात्रखननादिकमेव चौर्य प्रसिद्धं । मया तु वणिक्कलैव कृतेति भावनया व्रतरक्षणोद्यतत्वादतिचार एवेति ।
विरुद्ध राज्येऽप्यतिक्रमः । अपिः समुच्चये । विरुद्धं विनष्टं विगृहीतं वा राज्यं राज्ञः पृथ्वीपालनोचितं कर्म विरुद्वराज्यं छतभङ्गः पराभियोगो वेत्यर्थः । तत्रातिक्रम उचितन्यायादन्येनैव प्रकारेणार्थस्य दानग्रहणं । विरुद्धराज्येऽ ल्पमूल्यलभ्यानि महायणि द्रव्याणि इति प्रयततः । अथवा विरुद्वयोरर्थाद्राज्ञो राज्यं नियमिता भूमिः कटकं वा विरुद्वराज्यं तत्र । षष्ठीसप्तम्योरर्थ प्रति भेदाभावात् । तस्यातिक्रमो व्यवस्थालंघनं । व्यवस्था च परस्परविरुद्धराजकत्वे एव । तल्लंघनं चान्यतरराज्यनिवासिन इतरराज्ये प्रवेश: । इतरराज्यनिवासिनो वा अन्यतरराज्ये प्रवेशः । विरुद्धराज्यातिक्रमस्य च यद्यपि स्वस्वामिनोऽननुज्ञातस्यादत्तादानलक्षणयोगेन तत्कारिणां च चौर्यदण्डयोगेन चौर्यरूपत्वाद्रतभङ्ग एव, तथाऽपि विरुद्धराज्यातिक्रमं कुर्वता मया वाणिज्यमेव कृतं न चौर्यमिति भावनया व्रतसापेक्षत्वाल्लोके च चोरोऽयमिति व्यपदेशाभावादतिचारता स्यात् । अथवा चोरप्रयोगादयः पञ्चाप्येते व्यक्तचौर्यरूपा एव । केवलं सहकारादिना वा प्रकारेण क्रियमाणास्तेऽतिचारतया व्यपदिश्यन्ते । न चैते राज्ञां तत्सेवकादीनां वा न सम्भवन्तीति वाच्यम् । यतः प्रथमो द्वितीयः स्पष्ट एव । तृतीयस्तुर्यश्च यदा राजा भाण्डागारे हीनाधिकमानोन्मानं द्रव्याणां विनिमयं च कारयति तदा राज्ञोऽप्यतिचारौ स्तः । विरुद्वराज्यातिक्रमस्तु यदा सामन्तादिः कश्चित् स्वस्वामिनो वृत्तिमुपजीवति तद्विरुद्वस्य च सहायो भवति तदा अस्यातिचारः स्यात् । सोमदेवपण्डितस्तु मानन्यूनत्वाधिकत्वेन द्वावतीचारौ मन्यमान इदमाह - मानवन्न्यूनताधिक्ये तेनकर्म ततो ग्रहः । विग्रहो संग्रहोऽर्थस्यास्तेयस्यैते निवर्तकाः ॥ ५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org