SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ चतुर्थोध्यायः। ११३ मेदिनीपतिः राजा । कीदृशः, दायादः साधारणः स्वामी । कस्य, धनस्य । कीदृशस्य, अस्वामिकस्य स्वामिरहितस्य । क्व, इह लोके ॥४८॥ स्वामिसांशयिके स्वधनेऽपि नियमं कारयन्नाह खमपि स्वं मम स्याद्वा न वेति द्वापरास्पदम् । यदा तदाऽऽदीयमानं व्रतभङ्गाय जायते ।। ४९ ॥ टीका--जायते सम्पद्यते । किं तत्, स्वमपि स्वं आत्मीयमपि द्रव्यं । कस्मै, व्रतभङ्गाय अचौर्यव्रतभङ्गं करोतीत्यर्थः । किं क्रियमाणं, दीयमानं आकारप्रश्लेषादादीयमानं च । कदा, तदा तस्मिन् काले । यदा यस्मिन् काले भवति । किं तत् , स्वमपि स्वं । किंविशिष्टं, द्वापरास्पदं संशयस्थानं । कथं कृत्वा, इदं धनं मम स्याद्भवेद्वा न वा स्यादित्येवं ॥ ४९ ॥ अचौर्याणुव्रतातिचारप्रहाणार्थमाह--- चोरप्रयोगचोराहतग्रहावधिकहीनमानतुलम् । प्रतिरूपकव्यवहृति विरुद्धराज्येऽप्यतिक्रमं जह्यात्॥५०॥ टीका-जह्यात् त्यजेत् । कोऽसौ,अचौर्याणुव्रती । किं तत् , चोरप्रयोगाद्यतिचारपञ्चकमिति समन्वयः । तत्र चोरप्रयोगः-चोरयतः स्वयमन्येन वा चोरय त्वमिति चोरणक्रियायां प्रेरणं । प्रेरितस्य वा साधु करोषीत्यनुमननं । कुशिकाकर्तरिकाघर्धरिकादिचोरोपकरणानां वा समर्पणं विक्रयणं वा । अत्र च यद्यपि चौर्य न करोमि न कारयामीत्येवं प्रतिपन्नव्रतस्य चोरप्रयोगो व्रतभङ्ग एव तथाऽपि किमधुना यूयं निर्व्यापारास्तिष्टथ, यदि वो भक्तादिकं नास्ति तदाऽहं तद्ददामि, भवदानीतमोषस्य वा यदि क्रेता नास्ति तदाऽहं विक्रेष्ये इत्येवंविधवचनैश्चौरान व्यापारयतःस्वकल्पनया तद्वयापारणं परिहरतो व्रतसापेक्षस्यासावतिचारः । चौराहतग्रहः-अप्रेरितेनाननुमतेन च चौरेणानीतस्य कनकवस्त्रादेरादानं मूल्येन मुद्रिकया वा। चौरानीतं च काणक्रयेण मुद्रिकया वा प्रच्छन्नं गृह्णश्चौरो भवति ततश्चौर्यकरणाद्रतभङ्गः । वाणिज्यमेव मया क्रियते न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वादभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः ॥ अधिकहीनमानतुलं-मानं प्रस्थादि हस्तादि च। तुला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy