________________
११२
सागारधर्मामृते
टीका- न हरेत् न गृह्णीयात् । नापि ददीत न परस्मै वितरेत् । कोऽसौ । चौरेत्यादि - चौरोऽयमुपलक्षणाद्धर्मपातकोऽयं बधकारो अयमित्यादिव्यपदेशं नाम करोतीति चौरादिव्यपदेशकरं, स्थूलस्तेयं बादरचौर्यं खात्रखननादिकं, तत्पूर्वमदत्तादानं वा, तत्र व्रतं नियमस्तस्माद्वा व्रतं निवृत्तिर्यस्य स तथोक्तोऽ चौर्याणुव्रतीत्यर्थः । किं तत् परस्वं परस्य धनं चेतनमचेतनं वा द्रव्यं सामर्थ्याददत्तं तस्यैव परस्वामिकत्वोपपत्तेर्दत्तस्य च स्वस्वामिकत्वसम्भवात् ॥ किंविशिष्टं, परमन्यत् । कस्मात् मृतस्वधनात् मृतश्चासौ स्वो ज्ञातिश्च मृतस्वः अर्थात्पुत्रादिरहितो लोकान्तरप्राप्तो बन्धुस्तस्य धनं तस्मात्, अन्यत् जीवतां ज्ञातीनामित्यर्थः । न केवलं ततः परं उदकादेश्व तोयतृणप्रभृतेश्च । किंविशिष्टात्, अखिलभोग्यात् अखिलैः सर्वैः स्थिरैरागन्तुभिश्च लोकैभाक्तुं योग्यत्वेन राजादिसमुत्कलितात् ॥ ४६ ॥
प्रमत्तयोगात्परकीय तृणस्याप्यदत्तस्यादाने दाने चाचार्यव्रतभङ्गं दर्शयति
संक्लेशाभिनिवेशेन तृणमप्यन्यभर्तृकम् ।
अदत्तमाददानो वा ददानस्तस्करो ध्रुवम् ॥ ४७ ॥
टीका - ध्रुवं निश्चितं भवति ! कोऽसौ पुरुषः । कीदृशः, तस्करचौरः । किं कुर्वाणः, आददानः आत्मसात्कुर्वन् । ददानो वा परस्मै प्रयच्छन् । किं तत्, तृणमपि किं पुनः सुवर्णादिकं । किंविशिष्टं, अन्यभर्तृकं अन्यः स्वस्मात्परो भर्ता स्वामी यस्य तदन्यभर्तृकमन्यदीयमित्यर्थः । किंविशिष्टं सत्, अदत्तं तत्स्वा - मिना अवितीर्णं । केन, संक्लेशाभिनिवेशेन रागाद्यावेशेन । एतेनेदमुक्तं भवति - प्रमत्तयोगे सत्येवादत्तस्यादाने दाने वा चौर्य स्यान्नान्यथा ॥ ४७ ॥ निधानादिधनं राजकीयत्वसमर्थनेन व्रतयन्नाह
स्वामिकमिति ग्राह्यं निधानादिधनं यतः । धनस्यास्वामिकस्येह दायादो मेदिनीपतिः ॥ ४८ ॥
टीका- न ग्राह्यं नादेयमचौर्याणुव्रतिना । किं तत्, निधानादि धनं नदीगुहाविवराकरादिस्थितं द्रव्यं । कथं कृत्वा, अस्वामिकमिति नास्य कश्चित् स्वमीति परस्वं न भवतीति सङ्कल्प्य । कुतः, इत्याह यतो यस्मात् । भवति । कोऽसौ,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International