________________
चतुर्थोध्यायः ।
१११
सत्याणुव्रतस्य पञ्चातिचारान् हेयत्वेनाह
मिथ्यादिशं रहोऽभ्याख्यां कूटलेखक्रियां त्यजेत् ।
न्यस्तांशविस्मत्रनुज्ञा मन्त्रभेदं च तद्वतः ॥ ४५ ॥ टीका-त्यजेत् । कोऽसौ, तद्रतः । तत्स्थूलालीकादिवचनविरतिलक्षणं व्रतं यस्यासौ सत्याणुव्रतीत्यर्थः । किं तत्, मिथ्यादिशमित्यादि पञ्चकं । तत्र मिथ्यादिक मिथ्योपदेशः । अभ्युदयनिःश्रेयसार्थेषु क्रियाविशेषेष्वन्यस्यान्यथा प्रवर्तनं । परेण• सन्देहापन्नेन पृष्ठेऽज्ञानादिनाऽन्यथाकथनमित्यर्थः । अथवा प्रतिपन्नसत्यव्रतस्य परपीडाकरं वचनमसत्यमेव । ततः प्रमादात्परपीडाकरणे उपदेशे अतिचारो यथा वाह्यन्तां खरोष्ट्रादयो हन्यन्तां दस्यव इति निष्प्रयोजनं वचनं । यद्वा विवादे स्वयं परेण चाऽन्यतरातिसन्धानोपायोपदेशो मिथ्योपदेशः ॥ रहोऽभ्याख्या--रहस्येकान्ते स्त्रीपुम्भ्यामनुष्टितस्य क्रियाविशेषस्याभ्याख्या प्रकाशनं यया दम्पत्योरन्यस्य वा पुंसः स्त्रिया वा रागप्रकर्ष उत्पद्यते । सा च हास्यक्रीडादिनैव क्रियमाणोऽतिचारो न त्वभिनिवेशेन । तथा सति व्रतभङ्ग एव स्यात् ॥ कूटलेखक्रियाअन्येनानुक्तमननुष्टितं च यत्किञ्चित्तस्य परप्रयोगवशादेवं तेनोक्तमनुष्टितं चेति वञ्चनानिमित्तं लेखनं । अन्यसरूपाक्षरमुद्राकरणमित्यन्ये । न्यस्ताशविस्मर्त्रनुज्ञा-न्यस्तस्य निक्षिप्तस्य हिरण्यादिद्रव्यस्य अंशमेकमंशं विस्मतुर्विस्मरणशीलस्य निक्षेप्तुरनुज्ञा । द्रव्यमरॉनिक्षेप्तुर्विस्मृततत्संख्यस्याल्पसंख्यं तद्गृह्नत एवमित्यनुमतिवचनं । सोऽयं न्यासापहाराख्योऽतिचारः ॥ मन्त्रभेदः अङ्गविकारभ्रूक्षेपादिभिः पराभिप्रायं ज्ञात्वाऽसूयादिना तत्प्रकटनं। विश्वसितमित्रादिभिर्वा आत्मना सह मन्त्रितस्य लज्जादिकरस्यार्थस्य प्रकाशनं ॥ यत्तु“मन्त्रभेदः परीवादः पैशून्यं कूटलेखनम् । मुधा साक्षिपदोक्तिश्च सत्यस्यैते बिधातकाः' ॥ इति यशस्तिलके अतिचारान्तरवचनं तत्परेऽप्यूह्यास्तदात्यया इत्यनेन संगृहीतं प्रतिपत्तव्यम् ॥ ४५ ॥ अथाचौर्याणुव्रतलक्षणार्थमाह
चौरव्यपदेशकरस्थूलस्तयवतो मृतस्वधनात् । परमुदकादेश्वाखिलभोग्यान हरेददीत न परस्वम्॥४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org