________________
११०
सागारधर्मामृते
व्यभिचारात्सत्यत्वं । प्रतिपन्नतत्कालव्यभिचाराचासत्यत्वं । इदमपि लोके तथा व्यवहारात्वचिद्वक्तव्यम् ॥ ४२ ॥
यत्स्वस्य नास्ति तत्कल्ये दास्यामीत्यादिसंविदा ।
व्यवहारं विरुधानं नासत्यासत्पमालपेत् ॥ ४३ ॥ टीका-न आलपेत् न ब्रूयात् सत्याणुव्रती । किं तत्, असत्यासत्यं वचः । किं कुर्वाणं, विरुधानं बाधमानं । कं, व्यवहारं लोकयात्रां। कया,यदित्यादियद्वस्तु नास्ति । कस्य, स्वस्यात्मनः सम्बन्धी । तदास्यामि तुभ्यं वितरिप्यामि । कदा, कल्ये प्रातः । इत्यादिरूपया संविदा प्रतिज्ञया ॥ ४३ ॥ सावद्यव्यतिरिक्तानृतपञ्चकस्य नित्यं वर्जनयित्वमाह
भोक्तं भोगोपभोगाङगमात्रं सावद्यमक्षमाः।
ये तेऽप्यन्यत्सदा सर्व हिंसेत्युज्झन्तु वाऽनृतम् ॥ ४४ ॥ टीका-अबायोग्याविशेषवचनवाच्यतानिवृत्तावशक्तान् प्रति सावधविशेषवक्तव्यतानुवृत्त्यर्थों वाशब्दः किं बहुनेत्यर्थः । वा किं बहुना । उज्झन्तु त्यजन्तु । के, तेऽपि धर्मैषिणः । किं नत्, अनृतं । किंविशिष्टं, अन्यत् सावधव्यतिरिक्तं सदपलपनादि । कियत्, सर्व पञ्चधाऽपि । कथं, सदा नित्यं । कथं कृत्वा, हिंसति यतः सर्वमनृतं हिंसापर्यायत्वाद्धिसैव प्रमादयोगाविशेषात् । यत्र तु प्रमत्तयोगो नास्ति तद्धियाऽनुष्टानाद्यनुवदनं नासत्यं । एतेनेदमपि संगृहीतं‘सा मिथ्याऽपि न गीमिथ्या या गुर्वादिप्रसादिनी ' इति । के ते, इत्याह-ये भवंति । किंविशिष्टा, अक्षमा असमर्थाः । किं कर्तु, मोक्तुं त्यक्तुं । किं तत्, सावयं वचः क्षेत्रं कृषेत्यादिरूपं प्राणिबधादिप्रवर्तकं । किंविशिष्टं सत्, भोगोपभोगाङ्गमात्रं भोगो भोजनादिः, उपभोगः काभिन्यादिः भोगश्चोपभोगश्च भोगोपभोगौ तयोरङ्गं साधनं तदेव तन्मात्रं न पुनस्तदसाधनं । सावद्यं वचःतत्र नास्त्यात्मेत्यादि सदपलपन । सर्वगत आत्मा श्यामाकतण्डुलमानो वेत्यादिकमसदुद्भावनं । गामश्वमभिवदतो विपरीतं । काणं काणमभिदधानस्याप्रियं अरे बान्धकिनेय इत्यादि गर्हितं साक्रोशमित्यन्यत् ॥४४॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
www