SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ चतुर्थोध्यायः। टीका-ब्रूयात् । कोऽसौ, सत्याणुवृती । किं तत्, सत्यसत्यादिवाक्त्रयं वक्ष्यमाणलक्षणं । कस्मात्, लोकयात्रानुरोधित्वात् लोकव्यवहारविसंवादित्वात् । न तु ब्रूयात् । किं तत्, असत्यासत्यं । कथं, जातुचित् कदाचिदपि । कस्मात्, ताद्वरोधात् लोकयात्राविप्रलम्भनात् ॥ ४० ॥ सत्यसत्यादीनि श्लोकत्रयेण लक्षयन्नाह यद्वस्तु यद्देशकाल-प्रमाकारं प्रतिश्रुतम् । तस्मिंस्तथैव संवादि सत्यसत्यं वचो वदेत् ॥ ४१ ॥ टीका-वदेत् सत्याणुव्रती । किं तत्, वचः । किंविशिष्टं, सत्यसत्यं । किंलक्षणं, संवादि तथाभूतं । क्व, तस्मिन् प्रतिज्ञाते वस्तुनि । कथं, तथैव तेनैव तद्देशकालपरिणामरूपत्वेन प्रकारेण । यत्किं, यद्वस्तु । प्रतिश्रुतं प्रतिज्ञातं । किंविशिष्टं, यद्देशकालप्रमाकारं प्रमा परिमाणं संख्या च, आकारो वर्णसंस्थानादिरूपं, देशश्च कालश्च प्रमा च आकारश्च देशकालप्रमाकाराः प्रतिज्ञाविषयीकृता यस्य च तत्तथोक्तम् ॥ ४१ ॥ असत्यं वय वासोऽन्धो रन्धयेत्यादि सत्यगम् । वाच्यं कालातिक्रमेण दानात्सत्यमसत्यगम् ॥ ४२ ॥ टीका-वाच्यं वक्तव्यं सत्याणुव्रतिना । किं तद्वचः । किंविशिष्टं, असत्यं किंविशिष्टं सत्, सत्यं सत्याश्रितं । असत्यमपि किञ्चित्सत्यमेवेत्यर्थः । तदेव वयेत्यादिना दर्शयति-भोः कुविन्द वय आतानवितानीभावरूपतया आसूत्रय त्वं । किं तद्वासो वस्त्रं । वस्त्रनिर्माणयोग्यतन्तुषु वस्त्रशब्दप्रयोगादसत्यत्वं तथा भो भक्तक रन्धय पच त्वं । किं तत्, अन्धः क्रूरं । अन्धोयोग्यतण्डुलेष्व. न्धशब्दप्रयोगादसत्यत्वं । आदिशब्दाभोः पेषक कणिकां पिष्टीत्यादिरूपं ग्राह्य। अत्र तत्तच्छब्दावाच्यत्वेऽपि लोके तथाव्यवहारात्सत्यत्वं । इदमसत्यसत्यं ॥ तथा वाच्यं । किं तत् , सत्यं । किंविशिष्टं, असत्यगं सत्यासत्यमित्यर्थः । कुतः, सम्भवद्दानात् वितरणात् । केन, कालातिक्रमेण । यथा अर्द्धमासतमे दिवसे तेवेदं देयमित्यास्थाय मासतमे संवत्सरतमे वा दिवसेदातीति । अत्र दाना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy