________________
१०८
सागारधर्मामृते
परेण क्रियमाणे, चशब्देन स्नानाशनमैथुनादौ च । यतेस्तु भ्रामरीप्रवेशेऽपि किंवत्, वान्तिवत् । छा यथा छर्दनादनन्तरमाचमनं यावदित्यर्थः । अथवा मौनं कुर्वीत । कथं, शश्वत् नित्यं । किमर्थ, भूय इत्यादि-भूयसां कायदोषापेक्षया बहुतराणां वाग्दोषाणां परुषादिवचनकृतपापासवाणां विच्छेदार्थम् ॥३८॥ अथ सत्याणुनतरक्षणार्थमाह
कन्यागोक्ष्मालीककूटसाक्ष्यन्यासापलापवत् ।।
स्यात्सत्याणुव्रती सत्यमपि स्वान्यापदे त्यजन् ॥३९॥ टीका--स्यात् । कोऽसौ, व्रतिकः श्रावकः । किंविशिष्टः, सत्याणुव्रती। किं कुर्वन्, त्यजन् वर्जयन् । किं तत्, सत्यमपि चोरे चोरोऽयमित्यादिरूपं तथ्यमपि । किमर्थ, स्वान्यापदे स्वपरविपत्त्यर्थं यत्तथाभूतं तत्सत्यमपि । किंवत्, कन्यालीकादिवत् । यस्मिन्नुक्ते स्वपरयोर्वधबंधादिकं राजादिभ्यो भवति तत्स्थूलासत्यं तादृक् सत्यं च स्वयमवदन् पराँश्चावादयन् सत्याणुव्रती स्यादित्यर्थः । तत्र कन्यालीकं यथा-भिन्नां कन्यामभिन्नां वा विपर्ययं वा वदतो भवति । इदं सर्वस्य कुमारादिद्विपदविषयकस्यालीकस्यापलक्षणं । गवालीक-अल्पक्षीरां गां बहक्षीरां विपर्ययं वा वदत: स्यात् । इदमपि सर्वचतुष्पदविषयालीकस्योपलक्षणं । क्ष्मालीकं-परस्वकामपि भूमिमात्मस्वका विपर्ययं वा वदतो भवेत् । इदं चाशेषपादपाद्यपदद्रव्यविषयालीकस्यापलक्षणं । कन्याउलीकानां च लोकेऽतिगर्हितत्वेन रूढत्वात् द्विपदादिग्रहणं न क्रियते । कन्याद्यलोकत्रयं लोकविरुद्धत्वान्न वाच्यं । कूटसाक्ष्यं-प्रमाणीकृतस्य लञ्चामत्सरादिना कूटं वदतः स्यात् । यथाऽहमत्र साक्षीति । अस्य च परपापसमर्थकत्वविशेषेण पूर्वेभ्यो भेदः । तच्च धर्मविपक्षत्वान्न वदेत् । धयं ब्रूयान्नाधर्म्यमिति विवादिभिरभ्यर्थितत्वात् । न्यासापलापः-न्यस्यते रक्षणार्थमन्यस्मै समय॑त इति न्यासः सुवर्णादिद्रव्यं तदपलापं नालपेत विश्वसितघातकत्वात् । किं चाज्ञानसंशयादिनाऽप्यसत्यं न ब्रूयात्, किं पुना रागद्वेषाभ्याम् ॥ ३९ ॥ लोकव्यवहाराविरोधेन च तदप्रयोगमुपदिशति
लोकयात्रानुरोधित्वात्सत्यसत्यादि वाक्त्रयम् । यादसत्यासत्यं तु तद्विरोधान जातचित ॥ ४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org