________________
चतुर्थोध्यायः ।
टीका - भवति विधीयते वा । किं तत्, उद्योतनं फलातिशयलाभमाहात्म्यापादनं । क, मौने' । किंविशिष्टे, असार्वकालिके यथात्मशक्ति नियतकालं कृते । किं तत्, एकेत्यादि - एकघण्टादानं एकस्या घण्टाया दानं वितरणं । क्व, जिनालये अर्हच्चैत्यगृहे । कथं, सह । केन, महेनोत्सवेन पूजया वा । तथा सार्वकालिके यावज्जीवं प्रतिपन्ने मौने । उद्योतनं भवति । किं तत्, निर्वाहो निराकुलं वहनं । नान्यत् ॥ ३७ ॥
आवश्यकादिषु शक्तितः कृत्वा मौनं सर्वदाऽपि मौनविधानेन वाग्दोषो-च्छेदमाह
आवश्यके मलक्षेपे पापकार्ये च वान्तिवत् । मौनं कुर्वीत शश्वद्वा भूयोवाग्दोषविच्छिदे || ३८ ॥
टीका - कुर्वीत । कोऽसौ साधुः । किं तत्, मौनं । क्व, आवश्यके सामयि कादिकर्मषट्टे, तथा मलक्षेपे विण्मूत्रोत्सर्गे तथा पापकायें हिंसादिकर्मणि
,
१ सन्तोषं भाव्यते तेन वैराग्यं तेन दश्यते । संयमः पोष्यते तेन मौनं येन विधीयते ॥ लौल्यत्यागात्तपोवृद्धिरभिमानस्य रक्षणम् । ततश्च समवाप्नोति मनःसिद्धिं जगत्रये ॥ श्रुतस्य प्रश्रयात् श्रेयःसमृद्धेः स्यात्समाश्रयः । ततो मनुजलोकस्य प्रसीदति सरस्वती ॥ वाणी मनोरमा तस्य शास्त्रसन्दर्भ गर्भिता । आदेया जायते येन क्रियते मौनमुज्ज्वलम् ॥ पदानि यानि विद्यन्ते वन्दनीयानि कोविदैः । सर्वाणि तानि लभ्यन्ते प्राणिना मौनकारिणा ॥ भव्येन शक्तितः कृत्वा मौनं नियतकालिकम् । जिनेन्द्रभवने देया घण्टैका समहोत्सवम् ॥ न सार्वकालिके मौने निर्वाहव्यतिरेकतः । उद्योतनं परं प्राज्ञैः किंचनापि विधीयते ॥
For Private & Personal Use Only
Jain Education International
१०७
www.jainelibrary.org